Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir अथ ॥ शिरामाणेः । यद्यांचे लक्षणतः सामान्यमप्रतीतवतो विशेषांजज्ञासानुदयात सामान्यलक्षणानन्तरमेव विशेष*विभागो युक्तस्तथापि सव्यविचारपदस्य साधारणमात्रे प्रसिद्धतया तन्मात्रस्य लक्ष्यभावं बुध्यमानैरन्तेवासिभिरसाधारणादि साधारणस्य लक्षणस्यातिव्याप्तिस्तद्द्यावृत्तस्यैव च साधुता प्रतीयेत अतस्तहारणाय लक्ष्यान्तरमपि दर्शयति सव्यविचार इति। कश्चित्तु सामान्यज्ञानाधीनो विभागो न तल्लक्षणतः प्रत्ययमपेक्षतेऽतः प्रथमं विभागकरणेऽपि न दोष इत्याह । प्रसक्तिरनुमितिरापत्तिर्वा तदुपधानमव्यापकमतिव्यापकंच तथाविधव्याप्तिभ्रमेण सद्धतावतस्तद्योग्यता वाच्या सा च तादृशव्याप्त्यादि. रूपा न च विरुद्धो भयव्याप्यत्वमेकस्य संभवतीत्याह एकस्येति । साध्येति कोटिहयोपस्थापकं सत् साध्यसंदेहजनकं साध्यसंदेहजनककोटिहयोपस्थितिजनकमिति यावत् । आश्रयतया विषयितया वा नित्यत्वानित्यत्वोपस्थापकस्य नित्यत्वे साध्ये ज्ञानस्यानुवृत्तत्वव्यावृत्तत्वाभ्यां वन्हितदक्षावोपस्थापकस्य वन्ही साध्ये धूमस्य वारणाय जनकान्तम् । तथोपस्थिते : साध्यसंदेहाजनकत्वात् धर्मिमतावच्छेदकपुरोवर्त्तित्वादिविशिष्टधामज्ञानस्य संशयजनकतया तहारणाय कोटिहयोपस्थापकेति । न चतदसाधारणतया संग्राहय मेवेति वाच्यम् तथात्वेऽपि तदुत्तीर्णतादशायां विशेषदर्शनातू संशयानुपधायकत्वेऽपि तज्जननयोग्यताया अनिवृत्तेः। अन्यथा यथायथं पक्षे साध्यतदभावनिश्चयदशायां साधारणाव्याप्तिप्रसंगात् । प्रतिपक्षसम्बलनदशायां हेतुमत्ताज्ञानस्य साध्यसंदेहजनकत्वपक्षे हेतुवारणाय कोटीत्यादिहेतुना साध्यस्य प्रतिहेतुना तदभावस्य उपस्थापनादुभयोपस्थापकत्वं |न कस्यापीत्यपि कश्चित् । इदं ड्यणुकं नित्यमणुत्वादित्यादौ साधारणधर्मवत् धमिज्ञानस्य कोटयुपस्थिति संशयंच प्रतिहेतुतयातद्विषये धम्मिणि सहेतौ अतिप्रसंगः स्यादत: पक्षधर्मतेति पक्षपदं धर्मिमात्रपरम् । नचैवं नित्यो घटः शब्दत्वादित्यत्र बाधाद्यवतारेऽसाधारण्यापत्तिरिष्टत्वात् अन्यथा बाधासिद्ध्योरन्यतरावतारदशायां साधारणासंग्रहापत्तेः असिद्धिसंकीर्णत्वे | For Private and Personal use only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 90