Book Title: Hetvabhas Savyabhichar
Author(s): Gangadhar Pandit
Publisher: Gangadhar Pandit
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
शिरो.
ग्रहप्रतिबंधकत्वात् अतएव पक्षः साध्यातिरिक्तपक्षधर्मातिरिक्तधर्मवान् मेयत्वादित्यादयोऽनुकूलतर्कविरहिणोबाधप्रतिरोधयोरनवतारेऽपि पक्ष एव संदिग्धानकान्तिकतया अप्रयोजका गीयते एवं वन्हिहानुकूलत्यादयः शक्तिसाधका अपि अन्यथा पक्षातिरिक्त सर्वत्र साध्यवत्तानिर्णयाद्व्याप्तिग्रहस्य दुर्वारत्वात् पक्षविपक्षान्यतरत्वादिना सर्वत्र सत्प्रतिपक्षप्रसंगाच अथ सा-1 ध्यतइदत्यन्तान्योऽन्याभावगर्भव्यभिचारयोरेकोपादानेऽन्यतराव्याप्तिः साध्यवत्ताज्ञानप्रतिबंधकज्ञानविषयत्वेनाभावड्यानुगमेऽपि हेतुमति तादृशाभाववत्त्वस्य तादृशाभाववति हेतुमत्त्वस्य तादशाभावे हेतु सामानाधिकरण्यस्य साध्यतहदादौ हेतुसमानाधिकरणतादृशाभावप्रतियोगित्वादेश्वासंग्रह इति चेत् अत्र वदंति प्रकृतसाध्यसाधनसामानाधिकरण्यग्रहाविरोधिनो ज्ञानस्य विषयतया अन्वयव्याप्तिग्रहविरोधितावच्छेदकत्वेन विभजनान्नासंग्रहः अविरोधिन इत्यंतेन साध्याप्रसिद्धयादीनां निरास : यदि पुनरत्यंतान्योऽन्याभावयोरेकतरगर्भव्यभिचारज्ञानस्य नान्यतरगर्भव्याप्तिग्रहविरोधित्वम् इत्यादिकं विभाव्यते तदा साध्यसामानाधिकरण्यघटितत्वेनान्वयव्याप्तयोऽनुगमनीयाः प्रातिस्विकरूपेणोपादाय वा तावड्याप्त्यवगाहित्वम् ग्रहस्य वक्तव्यं साध्याव्यभिचरितसामानाधिकरणस्य व्याप्ये प्रसिद्धस्य हेती विरहोऽप्येतहिशेष एव विशिष्टसाध्यसाधनवत्त्वग्रहाविरोधिनोज्ञानस्य विषयतया व्यापकत्वग्रहविरोधितावच्छेदकरूपत्वं वा विभाजकं शेषं पूर्ववत् । साध्य तहतोरत्यन्तान्योऽन्याभावौ साध्या भावव्याप्यादिव्यावृत्तेन साध्यवत्ताज्ञानविरोधित्वेनानुगमस्य तत्र हेतुसामानाधिकरण्याभावग्रहविरोधित्वं साध्यवत्ताज्ञान विरोधिनि तादृशाभावग्रहविरोधिहेत्वाभासतावच्छेदकरूपवत्त्वं वा तथा वक्तव्यं साध्याभावव्याप्यादौ तु हेतुसामानाधिकरण्यादिकमविरोधित्वान्नाभासः विरोधित्वं पूर्वोक्तदिशावसेयम् उपदर्शितदिशिष्टव्याप्तिविरहो व्याप्यत्वासिद्धिरेवेति व्याप्तिग्रहकारणस हचारग्रह सहकार्यभावप्रतियोगिग्रहविषयत्वेनानुगम इत्यपि कश्चित् । प्राचां मतेनोचरयति न सर्वेत्यादि । सर्वेति विपक्षे
For Private and Personal use only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90