Book Title: Heersaubhagya Mahakavyam Part 03
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 337
________________ ७८६ होरसौभाग्यम् [ सर्ग १७ : श्लो० ३४-३५ दुर्दैवयोगाजलधौ : जम्भे तदा कुतश्चिज्जलदस्तमोवत् । चिखेल योषेव तडित्तदके जगर्न मत्तेभ इवोत्कटं सः ॥ ३४ ॥ तदा तस्मिन् सागरव्यवहारिणः वारिधिमध्यगमनसमये दुर्दैवयोगादभाग्योदयात् प्रभावाजलधौ पयोधेरुपरि गगनभागे जलदोऽतिप्रबलपयोधरः कुतचित्करमाच्चन स्थानादागत्य जजृम्भे नभोमण्डले परितः प्रससार । किंवत् । तमोवत् यथान्धकार कुतश्चिद्विरिगहरादिभ्य आगत्य जृम्भति द्यावाभूम्योः प्रसरति । पुनस्तस्य जलदस्याङ्के उत्सङ्गे। मध्ये इन्यर्थः । तडिद्विधुच्चिखेल चिक्रीड चमत्कार कुरुते स्म । केव। योषेत्र । यथा वाणिनी नायिका स्वनायकाके वैलायति । पुनः स जलदो मत्तेभ इव । वारुणीयायिमदोद्धतीभूतनूतगन्धसिन्धुर इव उत्कट कर्णकटुक यथा स्यानथा भैरव जगर्ज गर्जारव चकार ॥ પ્લેકાર્થ તે વખતે દુર્ભાગ્યવશાત્ સમુદ્રમાં ભયંકર તેફાન થયું અને સ્ત્રીઓની જેમ વીજળી એના વિલાસે થયા તેમજ મદેન્મત્ત હાથીની જેમ મેઘની ભયંકર ગર્જનાઓ સાથે વર્ષો થવા લાગી. એ ૩૪ છે. ततोऽहिकान्तः परिवर्तवात इव प्रवृत्तः परितः पयोधौ। कपोतपोता इव तस्य पोता निपेतुरुत्पत्य नभस्यधस्तात् ॥३५॥ ततः प्रबलपयोधिपटलप्रसरणानन्तरं परिवर्तवातः कल्पान्तकालसंबन्धी समीरण इव । 'कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः। संवतः परिवर्तश्च' इति हैम्याम । अहिकान्तः प्रचण्डपवनः । 'वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः' इत्यपि हैम्याम् । परितः समुद्रमध्ये सर्वत्र प्रवृत्तः प्रवर्तते स्म । प्रसरति स्मेत्यर्थः । ततः पवनप्रवृत्तेरनन्तः तस्य सागरव्यवहारिणः पोता वहनानि नभसि उत्पत्य अत्युद्भटविकटप्रभञ्जनवं हिमरंहःसंदोहोच्छालितानि गगनाङ्गणान्तरुड्डीयोड्डीय अधस्तात्पुनः पयोधिमध्ये निपेतुः पतन्ति स्म । के इव । कपोतपोता इव । यथा पारावतपृथुका व्योमन्युड्डीयाधस्ताद्धरणीपीठे निपतन्ति ॥ શ્લેકાર્થ ત્યારે સમુદ્રમાં કલ્પાંતકાળના પવનની જેમ ચારે બાજુ પ્રચંડ પવન પ્રગટ થયે, તેથી પારેવાંનાં બાળકની જેમ યાનપાત્ર આકાશમાં ઊડી ઊડીને નીચે પડવા લાગ્યાં. ૩૫

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444