Book Title: Heersaubhagya Mahakavyam Part 03
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
View full book text
________________
सर्ग १७ : श्लो० १७८-१७९ ]
हीरसौभाग्यम्
८६५
પ્લેકાર્થ
સર્વે શ્રાવકેએ પિતાના ખભા ઉપરથી ઉતારીને માંડવીને આમ્રવૃક્ષની નીચે મૂકી. તે આમ્રવૃક્ષ જાણે પૃથ્વીરૂપી લક્ષ્મીના મસ્તક ઉપર નીલમણિથી બનાવેલું છત્ર ન હોય.
॥१७७ ॥
संस्कारोपस्करमथ तत्रानिन्युर्जना गतोत्साहाः। चन्दनदलिकादिममिव गीर्वाणाः सार्वनिर्वाणे ॥१७८ ॥
अथ संस्कारभूमौ मण्डपिकाया आनयनानन्तरं गतोत्साहाः शिथिलोधमा उद्यमरहिताः । 'उत्साहः प्रगल्भता । अभियोगोधमौ प्रौढिः' इति हैम्याम् । जनास्तत्र संस्यारोचितसहकारतरुसमीपभूमौ संस्कारोपस्करं सूरिशरीरसंस्कारकरणसमुदायमानिन्युरानयन्ति स्म । सं. स्कारोपस्करं किंभूतम् । चन्दनदलिकादिमं श्रीखण्डकाष्ठप्रमुखम् । क इव । गीर्वाणा इव । यथा देवा विगतोचमाः सन्तः सार्वस्य जिनस्य निर्वाणे सिद्धिविधाने तहत्तमसंस्कारोपस्कर मेरुभूमेश्चन्दनादिकमानयन्ति ॥
પ્લેકાર્થ
તીર્થકર ભગવંતના નિર્વાણમાં નિરુત્સાહી બનેલા દેવે જેમ ચંદન વગેરે લાવે તેમ નિરુત્સાહી શોકાતુર બનેલા શ્રાવકે ચંદનનાં લાકડાં આદિ અગ્નિસંસ્કારને સામાન साव्या. ॥१७८॥
व्यालानुषगवशतो वसतेर्वनान्ते
पुष्पश्रिया फलभरैरपि वन्ध्यभावात् । आगान्मुमूर्षुरतिदुःखगणेन गन्ध
सारः किमत्र तिथिसंख्यमणप्रमाण ॥ १७९॥
अत्र संस्कारभूमौ तिथीनां पञ्चदशकर्मवादिनां संख्या मानं येषां तादृशानां चत्वारिंशत्सेरप्रमाणानां मणानां मानविशेषाणां प्रमाण यस्य । पञ्चदशमणा इत्यर्थः। गन्धसारश्चन्दन आगात् । उत्प्रेक्ष्यते-अतिदुःखगणेन अत्यभ्यधिकानां हृदरंतुदानां दुःखानामसातानां हि० सौ० १०९

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444