Book Title: Heersaubhagya Mahakavyam Part 03
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
________________
सर्ग १७ : लो० १९९-२०० ]
ખૂશ કરતા હતા, જેમ ગૌડદેશની લક્ષણાવતીનગરીના ધર્મરાજાની રાજસભામાં અલ્પભટ્ટીસૂરિજી હતા તેમ વિજયસેનસૂરિજી લાહારની રાજસભામાં Àાભતા હતા. ॥ ૧૯૮૫
सम्
वादे वादिगणान्विजित्य समरे दैत्यानिव श्रीपतिः कीर्तिस्तम्भभिवात्मनो नृपपुर : संस्थाप्य धर्म पुनः । श्यामीकृत्य मुखान्यशेषकुदृशां पूषेव काकद्विषां
सूरिः कारयति स्म भूमिवलये स्वीयां जयोद्घोषणाम् ॥ १९९ ॥
८७७
सूरिविजयसेनाचार्यः भूमिवलये अखिलक्षोणीमण्डले स्वीयामात्मीयां जयोघोषणां कारयति स्म सर्वषादिवृन्दविजयढक्कां वादयति स्म । किं कृत्वा । नृपपुरः पातिसाहेरग्रे आत्मनो निजस्य प्रत्यर्थिभूतानां वादिनां पण्डितंमन्यानां गणानु वादे युक्तिप्रतियुक्तिस्थापनसमये विजित्य सर्वानपि पराभूय के चित्कुमतिभिः कौशिकैरिव रवेस्तस्योदयमसहिष्णुभिः अतिद्विष्टतया बहुद्रविणप्रदानपूर्वक विभेद्यातीय प्रेरितान त्रिषष्ट्यधिकत्रिशती मितद्विजातीन्निरुत्तरीकृत्य । क इव । श्रीपतिरिव । यथा कृष्णः समरे दैत्यान्दानवान्विजयते स्म । पुनः किं कृत्वा । नृपपुरः पातिसाहेः पुरस्तात् आत्मने। निजस्य धर्म निजकी - जैनधर्मे संस्थाप्य जगति जैन पत्र धर्मः सत्यो नान्य इति स्थापयित्वा । कमिव । कीतिस्तम्भमिव । यथा कश्चिद्विजयी राजा रिपून्निर्जित्य स्वकीर्तिस्तम्भ स्थापयति । पुनः किं कृत्वा । अशेषकुदृशां समस्तपरवादिनां मुखानि श्यामीकृत्य सकलकुपाक्षिकान् कृष्णमुखान्निर्माय । क इव । पूषेत्र । यथा भानुमान् काकद्विषां कौशिकानां श्यामानि वक्राणि कुरुते ॥ इति वादे विजयसेनसूरिविजयः ॥
શ્લેાકા
જેમ વિષ્ણુએ રણસંગ્રામમાં દૈત્યને જીત્યા હતા તેમ વિજયસેનસૂરિજીએ અકબરબાદશાહની રાજસભામાં વાદવિવાદમાં અનેક જાતના વાદીઓને જીતીને રાજા સમક્ષ કીતિસ્તંભની જેમ જૈનધર્મની સ્થાપના કરી અર્થાત્ જૈનધમની સિદ્ધિ કરીને, જેમ સૂ ઘુવડાના મુખને શ્યામ કરે તેમ સમસ્ત કુવાદીઓનાં સુખને શ્યામ મનાવી, જગતમાં પેાતાની જયઘાષણા કરાવી, અર્થાત્ જૈનધમ ના જયજયકાર કરાવ્યેા. ૫ ૧૯૯ ॥
तस्य स्फुरन्मानमकब्बरेण प्रीत्या स्फुरन्मानमिवार्पयित्वा । सबन्धुवत्स्वीयजनैरुपेतः संप्रेषितो हीरगुरोः समीपे ॥ २०० ॥
Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444