Book Title: Heersaubhagya Mahakavyam Part 03
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

View full book text
Previous | Next

Page 407
________________ ८५६ हीरसौभाग्यम् [ सर्ग १७ : श्लो० १६०-१६१ શ્લેાકા જાણે આચાર્ય દેવનુ મુખ જોવા માટે આવ્યે ન હોય તેમ ચન્દ્રના ઉદય થયા. અને સ્વગમાં જતા આચાય દેવના માગમાં જાણે દેવાએ પુષ્પોના સમૂહ પાથર્યાં ન હાય ! તેવા દેદીપ્યમાન તારા ઝગઝગાટ કરતા હતા. ।। ૧૫૯ ॥ महेभ्यवत्संनिधिशालमानानाकार्य कार्यज्ञतयानगारान् । तदहिकामुष्मिक सर्वशर्मनिर्माणदक्षाः प्रवितीर्य शिक्षाः ॥ १६० ॥ पवंविधे व्यतिकरे सति । किं कृत्वा । कार्ये जातावसरे कृत्याकृत्य विधि जानातीति कार्यज्ञस्तस्य भाषस्तया शिक्षाप्रदानादिषु निपुणत्वेन संनिधौ समीपे शालमानान् शोभमानान् । किंवत् । महेभ्यवत् यथा महाव्यवहारिणः सद्भिर्विद्यमानै रत्नादिभिः शोभमानैव निधिभिर्निधानैः शालन्ते राजन्ते तान् तादृशाननगारान् निजपारिपार्श्वकान्मुनीनाकार्याय पुनस्तेषामाकारितयतीनामैहिकानीह लोक संबन्धीनि आमुष्मिकाणि परलोकसंबन्धीनि सर्वाणि समस्तानि शर्माणि सुखानि तेषां निर्माण करणे दक्षाः कुशलाः शिक्षा अनुशास्तीः प्रवितीर्य दवा | શ્લાકા તે અવસરે કૃત્યાકૃત્યના જાણકામ શ્રેષ્ઠિની જેમ આચાય દેવે સમીપવતી' સાધુઓને એલાવીને ઈહલેાક અને પરલેાકના સવ મુખાને આપનારી હિતશિક્ષા આપી. ॥ ૧૬૦ ।। अहो युवाभ्यां विजयादिसेनवतिक्षितीन्द्रान्प्रति वाच्यमेतत् । युष्माकमङ्केऽस्ति गणोऽखिलोऽपि स शासनीयः शिशुवत्स्वकीयः ॥ १६१ ॥ अहो इति संबोधने । विमलहर्षसोमवाचकौ युवाभ्यां संभूय विजय इति पदमादौ यस्य तादृशः सन् पताबता विजयसेननाम्नः व्रतिक्षितीन्द्रान साधुवसुधाधिपान प्रति पत दुष्यमान वाच्य कथनीयम् । तदेवोच्यते - अखिलोऽपि समस्तोऽपि गणस्तपागच्छ युsars' श्रीमतामङ्के उत्सङ्गेऽस्ति वर्तते । स तपागच्छश्रमणगणः शासनीयः सम्यक पालनीयः । किंवत् । शिशुवत् । यथा स्वकीयेा बालः पाल्यते । गणः किंभूतः । स्वकीयो गुरुपरम्परया आगतः । आत्मीयः अथ श्रीमदीयः ॥

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444