Book Title: Heersaubhagya Mahakavyam Part 03
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 408
________________ सर्ग १७ : श्लो० १६२ १६३ ] हीरसौभाग्यम् ८५७ શ્લેકાર્થ વિમલહર્ષ ઉપાધ્યાય અને સામવિજય ઉપાધ્યાયને કહ્યું કે વાચકેન્દ્રો, તમારે વિજયસેનસૂરિજીને આ પ્રમાણે કહેવું કે “આ સમસ્ત તપાગચ્છ તમારા ખોળે રહેલે છે, તે તેનું પિતાના પુત્રની જેમ સમ્યફપ્રકારે પાલન કરવું.' છે ૧૬૧ છે श्रीवाचकेन्द्रौ विमलादिहर्षसोमादिराजद्विजयाभिधानौ । सदाश्रवौ स्वौ सचिवाविवाथ संयोज्य वाचेति निजं मुखाब्जम् ॥१६२ ॥ अथ पुनः किं कृत्वा । विमल इति पदमादौ यस्य तादृशो हर्षः, तथा सोम इति पदमादौ यस्य स सोमादिः, तेन राजत् खोभमान विजय इति पदं यस्य एतावता विमलहर्ष-सोमविजय इत्यभिधाने ययोस्तौ । किंभूनौ । श्रीवाचकेन्द्रो श्रीमदुपाध्यायाधिराजो प्रति इति पूर्वोक्तेन गणशासनलक्षणविजयसेनसूरिशिक्षाप्रदानरूपप्रकरणवाचा वाण्या सम निज मुखाज वदनकमल संयोज्य योजयित्वा उन्त्वेत्यर्थः। उत्प्रेक्ष्यते-वाचकौ स्वौ सचिवाविव आत्मीयामात्याविव। किंभूतौ । सदा सर्वदा कालमाश्रवौ वचनस्थितौ निजकथनकारकौ ॥ પ્લેકાર્થ આ પ્રમાણે પિતાના મંત્રી સમાન નિરંતર ગુર્વાજ્ઞાને આધીન એવા વિમલહર્ષ ઉપાધ્યાય અને સેમવિજય ઉપાધ્યાયને કહીને- એ ૧૬૨ છે प्रणीय पूर्णाश्चतुरक्षमालाश्चतुर्गतीनामिव वारयित्रीः। गन्तुं गतिं पश्चमिकामिवाथो स पञ्चमी प्रारभताक्षमालाम् ॥ १६३॥ पुनः किं कृत्वा । चतुरक्षमालाश्चतस्रो जपमालिकाः पूर्णाः समाप्ति प्राप्ताः संपूर्णाः संजाताः प्रणीय कृत्वा आदितो गणयित्वा । उत्प्रेक्ष्यते-चतसृणां नरकतिर्यङ्नरसुरलक्षणानां गतीनां कुत्सितानां स्थानकानां वारयित्रीनिषेधिका इव । अथो पुनः स सरिः पञ्चमी पञ्चानां संख्यापरणीमक्षमालां प्रारभत । गणयित मिति शेषः । उत्प्रेक्ष्यते-पञ्चमिकां पञ्चांनां गतीनां पूरणी पूरकां गतिमनन्तसुखावासलक्षणां गतिं गन्तु यातुमिव ।। सप्तभिः कुलकमं ॥ हि० सौ० १०८

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444