Book Title: Heersaubhagya Mahakavyam Part 03
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 406
________________ सर्ग १७ : श्लो० १५८ - १५९ ] सौभाग्यम् नभस्यमासस्य नमत्पयोदकदम्बकाडम्बरिणो नभोवत् । प्रभोः प्रभावादिव शुचितायां तिथौ सुरद्वेषिनिषूदनस्य ॥ १५८ ॥ ८५५ सुराणां देवानां द्वेषिणां वैरिणेो दानवाः । 'असुरा दितिदनुजाः पातालौकः सुरारयः' इति हैम्याम् । तेषां निषूदनस्य उच्छेदकस्य हरेः । 'दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजः ' इति हैम्याम् । तिथौ दिवसे एकादशीदिने । किंभूतायां तिथौ । शुश्रितायामुज्ज्वलीभूतायाम् । अर्थाश्चन्द्रमसश्चन्द्रिकाभिर्धवलितायाम् तिथिशब्दः पुंखीलिङ्गे | उत्प्रेक्ष्यते - प्रभोहरविजयसूरेः प्रभावान्महिम्नो माहात्म्यात् । शुचितायामित्र । तिथिः कस्य । नभस्यमासस्य नभस्यो भाद्रपदसंज्ञो मासस्तस्य । 'श्रावणिकाधनभस्यः प्रोष्टभाद्रपदः पदः' इति हैम्याम् । किंभूतस्य । नमन्तः पयेाभरैर्नम्रीभवन्ता भूमौ लगन्तो ये पयेोदा मेघास्तेषां कदम्बकानि पटलानि तेषामाडम्बरः आटोपः अस्यस्मिंस्तस्य किंवत् । नभेावत् श्रावणमासस्येव । श्राव भाद्रपदमासौ बर्षा ऋतुः । यथा श्रावणे तथा भाद्रपदे यथा भाद्रपदे तथा श्रावणे मेघः स्यादिति । तथा 'नभानभस्यत्वमलम्भय दृशौ' इति नैषधे । सेवनावसरे दमयन्त्याः स्वदृश श्रावण भाद्रपदीकृते । अयं तु वर्षाऋतुत्वाम्मासस्वभावः । एकादशी तु स्वभावेनेाज्ज्वला । तत्रेयमुत्प्रेक्षा । अथ वा नभेाषद्गनस्येव । यथा प्रावृट्काले नभे। व्योम घनघनाघनमण्डलाडस्वरितं भवेत् ॥ पतावता भाद्रपद मास सितैकादशीतिथौ निशासमये ॥ શ્લેાકાથ શ્રાવણુ માસની જેમ જે મહિનામાં જલથી પરિપૂર્ણ મેઘના આડખર છે, તે ભાદરવા માસની વિષ્ણુ તિથિ (એકાદશી ) જાણે આચાય દેવના પ્રભાવથી ઉજજવલ ખની ગઈ ન હાય! અર્થાત્ સુદી એકાદશીની રાત્રિએ− ।। ૧૫૮ । कान्ते तमीनामुदिते मुनीन्दोस्तत्पक्रमे वत्क्रदिदृक्षयेव । स्फुरत्सु तारेषु गुरोः पथीव यातुर्दिवं क्षिप्तसुमेषु देवैः ॥ १५९ ॥ पुनस्तमीनां रात्रीणां कान्ते वल्लभे चन्द्रे उदिते सति उदयं प्राप्ते सति । उत्प्रेक्ष्यतेतत्प्रत्क्रमे तस्मिन्नवसरे अनशनिना मुनीन्दाहरविजयसुरेवंत्कस्य वदनस्य दिदृक्षया व्रष्टुमिच्छयेव । पुनस्तारेषु उपलक्षणादु ग्रह नक्षत्रतारकेषु स्फुरत्सु दीप्यमानेषु झगज्झगिति कु त्सु । उत्प्रेक्ष्यते - दिवं स्वर्गलोकं यास्यति गमिष्यतीत्येवंशीलस्य यातुर्गुरोर्हीींरखरेः पथि मार्गे देवः क्षिप्तेषु विकीर्णेषु सुमेषु पुष्पेष्विव पुष्पप्रकरेष्विव ॥ घनेोपरे घनिर्मुक्तग्रहनक्षत्रतारकलितकौमुदीकान्तादये जाते ||

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444