________________
सर्ग १७ : श्लो० १५८ - १५९ ]
सौभाग्यम्
नभस्यमासस्य नमत्पयोदकदम्बकाडम्बरिणो नभोवत् ।
प्रभोः प्रभावादिव शुचितायां तिथौ सुरद्वेषिनिषूदनस्य ॥ १५८ ॥
८५५
सुराणां देवानां द्वेषिणां वैरिणेो दानवाः । 'असुरा दितिदनुजाः पातालौकः सुरारयः' इति हैम्याम् । तेषां निषूदनस्य उच्छेदकस्य हरेः । 'दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजः ' इति हैम्याम् । तिथौ दिवसे एकादशीदिने । किंभूतायां तिथौ । शुश्रितायामुज्ज्वलीभूतायाम् । अर्थाश्चन्द्रमसश्चन्द्रिकाभिर्धवलितायाम् तिथिशब्दः पुंखीलिङ्गे | उत्प्रेक्ष्यते - प्रभोहरविजयसूरेः प्रभावान्महिम्नो माहात्म्यात् । शुचितायामित्र । तिथिः कस्य । नभस्यमासस्य नभस्यो भाद्रपदसंज्ञो मासस्तस्य । 'श्रावणिकाधनभस्यः प्रोष्टभाद्रपदः पदः' इति हैम्याम् । किंभूतस्य । नमन्तः पयेाभरैर्नम्रीभवन्ता भूमौ लगन्तो ये पयेोदा मेघास्तेषां कदम्बकानि पटलानि तेषामाडम्बरः आटोपः अस्यस्मिंस्तस्य किंवत् । नभेावत् श्रावणमासस्येव । श्राव
भाद्रपदमासौ बर्षा ऋतुः । यथा श्रावणे तथा भाद्रपदे यथा भाद्रपदे तथा श्रावणे मेघः स्यादिति । तथा 'नभानभस्यत्वमलम्भय दृशौ' इति नैषधे । सेवनावसरे दमयन्त्याः स्वदृश श्रावण भाद्रपदीकृते । अयं तु वर्षाऋतुत्वाम्मासस्वभावः । एकादशी तु स्वभावेनेाज्ज्वला । तत्रेयमुत्प्रेक्षा । अथ वा नभेाषद्गनस्येव । यथा प्रावृट्काले नभे। व्योम घनघनाघनमण्डलाडस्वरितं भवेत् ॥ पतावता भाद्रपद मास सितैकादशीतिथौ निशासमये ॥
શ્લેાકાથ
શ્રાવણુ માસની જેમ જે મહિનામાં જલથી પરિપૂર્ણ મેઘના આડખર છે, તે ભાદરવા માસની વિષ્ણુ તિથિ (એકાદશી ) જાણે આચાય દેવના પ્રભાવથી ઉજજવલ ખની ગઈ ન હાય! અર્થાત્ સુદી એકાદશીની રાત્રિએ− ।। ૧૫૮ ।
कान्ते तमीनामुदिते मुनीन्दोस्तत्पक्रमे वत्क्रदिदृक्षयेव । स्फुरत्सु तारेषु गुरोः पथीव यातुर्दिवं क्षिप्तसुमेषु देवैः ॥ १५९ ॥
पुनस्तमीनां रात्रीणां कान्ते वल्लभे चन्द्रे उदिते सति उदयं प्राप्ते सति । उत्प्रेक्ष्यतेतत्प्रत्क्रमे तस्मिन्नवसरे अनशनिना मुनीन्दाहरविजयसुरेवंत्कस्य वदनस्य दिदृक्षया व्रष्टुमिच्छयेव । पुनस्तारेषु उपलक्षणादु ग्रह नक्षत्रतारकेषु स्फुरत्सु दीप्यमानेषु झगज्झगिति कु त्सु । उत्प्रेक्ष्यते - दिवं स्वर्गलोकं यास्यति गमिष्यतीत्येवंशीलस्य यातुर्गुरोर्हीींरखरेः पथि मार्गे देवः क्षिप्तेषु विकीर्णेषु सुमेषु पुष्पेष्विव पुष्पप्रकरेष्विव ॥ घनेोपरे घनिर्मुक्तग्रहनक्षत्रतारकलितकौमुदीकान्तादये जाते ||