________________
[ सर्ग १७ : श्लो० १५७
ख्यानाच्चारपूर्वम् । दशमी वर्षीयान् प्रान्तावस्थावस्थितान् । 'निशि दशमितामालिङ्गन्त्यां विबोधविधित्सुभिः' इति नैषधे । निशाया अवसानसमये दशमितेति पदं दृश्यते । पुनः किंभूतः । विधिज्ञः शास्त्रोक्तप्रकारवेत्ता प्रान्तसमये अनशनं विहितं विलोक्यते इति वा विधिः । किं कुर्वाणः । अन्तर्मनोमध्ये प्रणिधानं पञ्चपरमेष्ठिध्यानं दधानो बिभ्राणः । किंलक्षणः सन् । एकतानं लयानुगं मनेो मानसं यस्य तादृशः सन् । कमित्र | शमीगर्भमिव । यथा शमीमः खेजडिकाभिधानपादपः शमीगर्भ पावकमन्तर्धत्ते । 'अचिः शमीगर्भतमोघ्नशुक्राः' इति हैम्यामग्निनामसु । तथा 'शमी मिवाभ्यन्तरली नपावकाम्' इति रघौ ॥
ફ્લાકા
જેમ શમી ( ખીજડાનું) વૃક્ષ મધ્યમાં અગ્નિ ધારણ કરે તેમ હૃદયમાં એકાગ્રચિત્તથી પરમેષ્ઠી મહામંત્રનું ધ્યાન કરતાં, વિધિના જાણકાર શ્રી હીરવિજયસૂરિજીએ ભાદરવા સુદ દશમના પ્રભાત સમયે અરિહંત ભગવંતની સાક્ષીએ અનશન સ્વીકાર્યું”.
॥ १५६ ॥
८५४
हरसौभाग्यम्
अथ सप्तभिः कुलकं प्रारभ्यते
भोक्तुं भुवं द्यां च समं मघोनो द्वितीयरूपादिव विक्रमार्कात् । नेत्रत्रिनेत्राननके कियानवत्क्रत्रियामापतिसंमितेऽब्दे ॥ १५७ ॥
तत्र पञ्चमीमक्षमालां गणयितुमारभतेति संबन्धः । आदित पत्र काव्यानि पृथक पृथक व्याख्यायन्ते | नेत्रे द्वे चक्षुषी, त्रिनेत्रस्येश्वरस्याननानि मुखानि पञ्च । 'पञ्चमुखोऽष्टमूर्तिः ' इति हैमीवचनात् पञ्चसंख्याकानि वदनानि तथा केकियानस्य मयूरवाहनस्य स्वामिsifier दनानि वत्क्राणि षट् । षण्मुखस्वात । तथा त्रियामापतिश्चन्द्रः एकः । एभिः पदार्थ : संमिते सम्यक्प्रमाणीकृते अब्दे वर्षे । कस्मात् । विक्रमार्कात् विक्रमादित्यनाम्नो नृपात । उत्प्रेक्ष्यते - मघोन इन्द्रस्य द्वितीयरूपादिव अपरशरीरादिव । किं कर्तुम् । यां देवलाकं च पुनर्भुव भूमण्डलं समं सार्धमेककालं भोक्तुं पालयितुं भुक्तिविषयीकर्तुं वा । Raranा विक्रमात द्विपञ्चाशदधिकषोडशशतप्रमाणे वर्षे संवत् १६५२ वर्षे इत्युक्तम् ।।
લેાકા
नेत्र ( २ ), ईश्वरभु ( 4 ), मत्ति ४२ स्वाभीनां भुख ( ६ ) अने यंद्र ( १ ) भेटी વિક્રમ સ ́વત ૧૬૫૨ વર્ષ, જાણે ઇન્દ્રના ખીજા રૂપથી સ્વગ અને પૃથ્વીને સમકાળે ભાગવટો કરવા માટે આ વર્ષે ન ઢાય. ।। ૧૫૭ ॥