Book Title: Heersaubhagya Mahakavyam Part 03
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 396
________________ सर्ग १७ ; श्लो० १४२-१४३] हीरसौभाग्यम् ८४५ मरुद्रुमान्मेरुरिवेन्द्रियाणि प्राणीव बाणानिव पञ्चबाणः। मुखान्यथा पञ्चमुखश्च सम्यङ्नाधारय पञ्चमहाव्रतान्यत् ।। १४२ ॥ यदहं पञ्चमहानतान् मेरूपमान्नियमविशेषान् । व्रतशब्दः पुनपुंसके । सम्यक त्रिकरशुद्धा नाधारय न धृतवान् । क इव । मेरुरिव । यथा काश्चनाचलः कल्पपारिजातमन्दारहरिचन्दनसंतानाभिधानान्पश्चसंख्याकान्मरुद्रुमान् कल्पवृक्षान् धारयति । पुनः क इव । प्राणीव । यथा जन्तः शरीररसनानासिकानयनश्रवणलक्षणानि पञ्चेन्द्रियाणि धत्ते । पनः क इव । पञ्चबाण इव। यथा मदनः संमोहन-उन्माद-तापन-शोषण-मारण-इति नाम्नः । तथा क्वचित् 'दिद्वीहिं दिद्विपसरो दिद्विपसारणभाव अणुराओ । अणुराएण षिनेहो वाणा मयणस्सा पञ्चेए ।' पतेऽपि पश्च बाणाः प्रोच्यन्ते । पञ्चप्रमाणान्बाणान् सायकान्दधाति । पुनः क इव । पञ्चमुख इव । अत्र यथा इवार्थ । यथा नीलकण्ठः कण्ठीरवो वा पञ्चमुखान धरति । मुखशब्दोऽपि पुनपुंसके । एवं यथा मेरुमनुष्यमदनपारीन्द्रपिनाकिनः कल्पद्रुमेन्द्रियमार्गणमुखानि धारयन्ति तथा अहं पञ्च महाव्रतान्नाधारयमित्यर्थः ॥ इति पञ्चव्रताधारणलोचनम् ।। લોકાથી જેમ મેરુપર્વત કલ્પ, પારિજાત, મંદાર, હરિચંદ અને સંતાન એ પાંચ કહ૫વૃક્ષને ધારણ કરે છે; પ્રાણી જેમ સ્પર્શ, રસના, ઘાણ, ચક્ષુ અને શ્રેત્ર એ પાંચ ઇન્દ્રિયને ધારણ કરે છે, કામદેવ સંમેહન, ઉન્માદ, તાપન, શેષણ અને મરણ એ પાંચ બાણેને ધારણ કરે છે અને મહાદેવ જેમ પાંચ મુખને ધારણ કરે છે તેમ મેં ધારણ કરેલાં પાંચ મહાવતેમાં કંઈપણ વિપરિત આચરણ કર્યું હોય તે મારું પાપ મિથ્યા થાઓ ! ૧૪૨ निशाचरेणेव निशाशन यन्मया कथ चित्प्रविधीयते स्म । कौसीद्यमाद्यन्मनसेव किंचिच्छैथिल्यमालम्ब्यत यत्क्रियासु ॥ १४३॥ मया कथंचिकेनचिन्मिथ्याज्ञानमूढतादिप्रकारेण निशाचरेणेव राक्षसेनेव निशाशन रात्रिभोजन प्रविधीयते स्म । पुनर्य क्रियासु चारित्रानुष्ठान करणेषु शैथिल्य शिथिलता किंचित्कृत किंचिन्न कृत किंचिदिष्यते किंचिच्च क्रियते इत्याद्य श्लथत्वमालम्ब्यत । केनेव । कौसीधेनालस्येन माद्यदुन्मत्तीभवन्मनश्चेतो यस्य तादृशेन पुंसेव । यथा अलसेन सर्व कार्य श्लथीक्रियते ॥ इति षष्ठवते रात्रिभोजनक्रियाशैथिल्यालोचनम ॥

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444