________________
सर्ग १७ ; श्लो० १४२-१४३]
हीरसौभाग्यम्
८४५
मरुद्रुमान्मेरुरिवेन्द्रियाणि प्राणीव बाणानिव पञ्चबाणः। मुखान्यथा पञ्चमुखश्च सम्यङ्नाधारय पञ्चमहाव्रतान्यत् ।। १४२ ॥
यदहं पञ्चमहानतान् मेरूपमान्नियमविशेषान् । व्रतशब्दः पुनपुंसके । सम्यक त्रिकरशुद्धा नाधारय न धृतवान् । क इव । मेरुरिव । यथा काश्चनाचलः कल्पपारिजातमन्दारहरिचन्दनसंतानाभिधानान्पश्चसंख्याकान्मरुद्रुमान् कल्पवृक्षान् धारयति । पुनः क इव । प्राणीव । यथा जन्तः शरीररसनानासिकानयनश्रवणलक्षणानि पञ्चेन्द्रियाणि धत्ते । पनः क इव । पञ्चबाण इव। यथा मदनः संमोहन-उन्माद-तापन-शोषण-मारण-इति नाम्नः । तथा क्वचित् 'दिद्वीहिं दिद्विपसरो दिद्विपसारणभाव अणुराओ । अणुराएण षिनेहो वाणा मयणस्सा पञ्चेए ।' पतेऽपि पश्च बाणाः प्रोच्यन्ते । पञ्चप्रमाणान्बाणान् सायकान्दधाति । पुनः क इव । पञ्चमुख इव । अत्र यथा इवार्थ । यथा नीलकण्ठः कण्ठीरवो वा पञ्चमुखान धरति । मुखशब्दोऽपि पुनपुंसके । एवं यथा मेरुमनुष्यमदनपारीन्द्रपिनाकिनः कल्पद्रुमेन्द्रियमार्गणमुखानि धारयन्ति तथा अहं पञ्च महाव्रतान्नाधारयमित्यर्थः ॥ इति पञ्चव्रताधारणलोचनम् ।।
લોકાથી
જેમ મેરુપર્વત કલ્પ, પારિજાત, મંદાર, હરિચંદ અને સંતાન એ પાંચ કહ૫વૃક્ષને ધારણ કરે છે; પ્રાણી જેમ સ્પર્શ, રસના, ઘાણ, ચક્ષુ અને શ્રેત્ર એ પાંચ ઇન્દ્રિયને ધારણ કરે છે, કામદેવ સંમેહન, ઉન્માદ, તાપન, શેષણ અને મરણ એ પાંચ બાણેને ધારણ કરે છે અને મહાદેવ જેમ પાંચ મુખને ધારણ કરે છે તેમ મેં ધારણ કરેલાં પાંચ મહાવતેમાં કંઈપણ વિપરિત આચરણ કર્યું હોય તે મારું પાપ મિથ્યા થાઓ ! ૧૪૨
निशाचरेणेव निशाशन यन्मया कथ चित्प्रविधीयते स्म । कौसीद्यमाद्यन्मनसेव किंचिच्छैथिल्यमालम्ब्यत यत्क्रियासु ॥ १४३॥
मया कथंचिकेनचिन्मिथ्याज्ञानमूढतादिप्रकारेण निशाचरेणेव राक्षसेनेव निशाशन रात्रिभोजन प्रविधीयते स्म । पुनर्य क्रियासु चारित्रानुष्ठान करणेषु शैथिल्य शिथिलता किंचित्कृत किंचिन्न कृत किंचिदिष्यते किंचिच्च क्रियते इत्याद्य श्लथत्वमालम्ब्यत । केनेव । कौसीधेनालस्येन माद्यदुन्मत्तीभवन्मनश्चेतो यस्य तादृशेन पुंसेव । यथा अलसेन सर्व कार्य श्लथीक्रियते ॥ इति षष्ठवते रात्रिभोजनक्रियाशैथिल्यालोचनम ॥