________________
८४४
हीरसौभाग्यम्
[सर्ग १७ : श्लो० १४०-१४१
मरुन्मृगाक्ष्या मरुतेव दिव्य नार्या नरेणेव च मानवीयम् । मया तिरश्चेव पुनस्तिरश्चा तैरश्चमाचर्यत मैथुन यत् ॥ १४० ॥
मरुन्मृगाक्ष्या देवाङ्गनया सम दिव्य देवतासंबन्धि यन्मया मैथुनमाचर्यत भोगः कृतः । केनेव । मरुतेव । यथा चतुनिकायादिदेवेन देव्या साध निधुवनं विधीयते । पुनर्नार्या मनुष्ययोषिता साकं मानवीय मानवसंबन्धि मैथुनं कामकेलिराचर्यत आचीर्णा । केनेव । नरेणेव । यथा नरेण नार्या सम कन्दर्पक्रीडा क्रियते । पुनस्तिरचा तिर्यग्जातीयया स्त्रिया सत्रा तैरश्चय तिर्यसंबन्धि मैथुनं ग्राम्यधर्म आचर्यत विहितम् । केनेव । तिरश्चेव । यथा तिर्यग्जातीयेन पुरुषेण तिरश्चा सम मैथुनं पशुक्रिया क्रियते । सर्वत्र इह भवेऽन्ये भवे. ऽपीति योज्यम् ॥ इति चतुर्थव्रते मैथुनालोचनम् ॥
શ્લેકાર્થ
દેવની જેમ દેવાંગનાની સાથે, પુરુષની જેમ મનુષ્ય-સ્ત્રીની સાથે, તિર્યચપશુની જેમ તિયચસ્ત્રીની સાથે આ ભવ કે પરભવમાં મૈથુનક્રીડા કરી હોય, તે મારું પાપ મિથ્યા थामे..' ।। १४०॥
सखीमिव स्वःशिवपद्मधाम्नोनिरीहतां मुग्धतया विहाय । दतीमिवादृत्य च दुर्गतीनामृद्धिं मयादायि परिग्रहो यत् ॥ १४१॥
यन्मया परिग्रहो धनधान्यद्विपदचतुष्पदादिक आदायि स्वीकृतः । किं कृत्वा । स्व:शिवपमधाम्नोः स्वर्गापवर्गलक्ष्म्योः सखीं वयसीमिव निरोहतां निःस्पृहभावं विहाय वि. मुच्य । कया । मुग्धतया मौग्ध्येनाज्ञानेन । च पुनर्दुर्गतीनां दुष्टानां महाधिव्याधिविधात्रीणां नारकतिर्यक्कुदेवकुमनुजलक्षणानां गतीनां दूतीमाकारण संदेशहारिकामिव ऋद्धि प्राप्ताप्राप्तेषु वस्तुषु सर्वेष्वैहलौकिकपदार्थेष्वासक्तिमादृत्याङ्गीकृत्य । तस्यामादरपरिभृयेत्यर्थः । इति पञ्चमव्रते परिग्रहालोचनम् ॥
શ્લોકાથ
“સ્વર્ગ અને અપવર્ગની લક્ષ્મીની સખી સમાન નિસ્પૃહતાને ત્યાગ કરીને અજ્ઞાનતાથી તિની દૂતસમાન આસક્તિને આદર કરીને, ધન-ધાન્ય આદિ કંઈપણ પરિગ્રહ મેં રાખે છે તે મારું પાપ મિથ્યા થાઓ.” ૧૪૧