Book Title: Heersaubhagya Mahakavyam Part 03
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
________________
८३६
हीरसौभाग्यम् [सर्ग १७ : श्लो० १२५-१२६-१२७
यैरन्तरे ध्यानधनंजयस्य प्रज्वाल्या दुकर्ममलं विशुद्ध । असजि जाम्बूनदवन्निजात्मा ते सन्तु सिद्धाः शरणं शरण्याः ॥ १२५ ॥
ते सिद्धा मुक्तात्माना निर्वाणं प्राप्ताः सत्त्वाः शरणमर्थान्मम त्राणाः सन्तु भवन्तु संसाराद्रक्षका भवन्तु । किंभूताः। शरण्याः शरणे साधवः । 'तत्र साधौ हिते च यः' इति यप्रत्ययः । ते के। यैः सिद्धानं तदेव धनंजयो वह्निस्तस्यान्तरे मध्ये दुष्टानि दुरन्ताधिव्याधिदुर्गतिरूपविपाककारित्वादशुभानि नृशंसानि कर्माणि तान्येव मल किट्ट तं प्रज्वाल्य भस्मीकृत्य निजस्यात्मन आत्मा जीवो विशुद्धो निर्मलः कर्मरहितः असजि सृष्टः कृतः । किंवत् । जाम्बूनदवत् । यथा दृषदादेर्मल कृशानुना प्रज्वाल्य सुवर्ण सृज्यते ॥ .
શ્લોકાર્થ
ધ્યાનરૂપી અગ્નિમાં દુષ્કરૂપી મળને ભસ્મીભૂત કરીને અગ્નિની જેમ પિતાના આત્માને જેમણે વિશુદ્ધ બનાવે છે તે શરશ્ય સિદ્ધ ભગવંતે મને શરણરૂપે થાઓ.” ૧૨૫
वितन्वते ये भ्रमरा इवात्मवृत्तिं स्मरं नन्ति च शंभुवये । ते साधवः स्युः शरणं तपस्याधुरं धुरीणा इव धारयन्तः ॥ १२६ ।।
ते साधवः श्रवणाः । ममेति शेषः । शरणं स्युभवेयुः । किंभूताः । धुरीणा धौरेयकाः दृषभा इव । तपस्पाधुर दीक्षायाः सर्वात्मना समग्र क्रियाकलापादिप्रकारकरणरूपधर्वी धारयन्तः बिभ्रतः । ये साधवो भ्रमरा मधुकरा इव आत्मवृत्तिं निजजीविकां माधुकरी वृत्ति वितन्वते कुर्वते । च पुनर्ये शंभुवदीश्वर इव जगविडम्बक स्मरं नन्ति मदनं व्यापादयन्ति ॥
શ્લેકાર્થ
જે ત્રાષભની જેમ સંયમરૂપી ધુરાને ધારણ કરે છે, ભ્રમરની જેમ માધુકરી ભિક્ષા વૃત્તિને કરે છે તેમજ ઈશ્વરની જેમ કામદેવને હણે છે, એવા સાધુભગવંતે મને શરણરૂપે थामी.' ॥ १२६॥
मज्जज्जनस्यास्ति करावलम्ब इवातिभीमे भववारिधौ यः । मूयात्स धर्मः शरण सुधांशुः सुधामिवान्तः करुणां दधानः ॥ १२७ ॥
Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444