SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ८३६ हीरसौभाग्यम् [सर्ग १७ : श्लो० १२५-१२६-१२७ यैरन्तरे ध्यानधनंजयस्य प्रज्वाल्या दुकर्ममलं विशुद्ध । असजि जाम्बूनदवन्निजात्मा ते सन्तु सिद्धाः शरणं शरण्याः ॥ १२५ ॥ ते सिद्धा मुक्तात्माना निर्वाणं प्राप्ताः सत्त्वाः शरणमर्थान्मम त्राणाः सन्तु भवन्तु संसाराद्रक्षका भवन्तु । किंभूताः। शरण्याः शरणे साधवः । 'तत्र साधौ हिते च यः' इति यप्रत्ययः । ते के। यैः सिद्धानं तदेव धनंजयो वह्निस्तस्यान्तरे मध्ये दुष्टानि दुरन्ताधिव्याधिदुर्गतिरूपविपाककारित्वादशुभानि नृशंसानि कर्माणि तान्येव मल किट्ट तं प्रज्वाल्य भस्मीकृत्य निजस्यात्मन आत्मा जीवो विशुद्धो निर्मलः कर्मरहितः असजि सृष्टः कृतः । किंवत् । जाम्बूनदवत् । यथा दृषदादेर्मल कृशानुना प्रज्वाल्य सुवर्ण सृज्यते ॥ . શ્લોકાર્થ ધ્યાનરૂપી અગ્નિમાં દુષ્કરૂપી મળને ભસ્મીભૂત કરીને અગ્નિની જેમ પિતાના આત્માને જેમણે વિશુદ્ધ બનાવે છે તે શરશ્ય સિદ્ધ ભગવંતે મને શરણરૂપે થાઓ.” ૧૨૫ वितन्वते ये भ्रमरा इवात्मवृत्तिं स्मरं नन्ति च शंभुवये । ते साधवः स्युः शरणं तपस्याधुरं धुरीणा इव धारयन्तः ॥ १२६ ।। ते साधवः श्रवणाः । ममेति शेषः । शरणं स्युभवेयुः । किंभूताः । धुरीणा धौरेयकाः दृषभा इव । तपस्पाधुर दीक्षायाः सर्वात्मना समग्र क्रियाकलापादिप्रकारकरणरूपधर्वी धारयन्तः बिभ्रतः । ये साधवो भ्रमरा मधुकरा इव आत्मवृत्तिं निजजीविकां माधुकरी वृत्ति वितन्वते कुर्वते । च पुनर्ये शंभुवदीश्वर इव जगविडम्बक स्मरं नन्ति मदनं व्यापादयन्ति ॥ શ્લેકાર્થ જે ત્રાષભની જેમ સંયમરૂપી ધુરાને ધારણ કરે છે, ભ્રમરની જેમ માધુકરી ભિક્ષા વૃત્તિને કરે છે તેમજ ઈશ્વરની જેમ કામદેવને હણે છે, એવા સાધુભગવંતે મને શરણરૂપે थामी.' ॥ १२६॥ मज्जज्जनस्यास्ति करावलम्ब इवातिभीमे भववारिधौ यः । मूयात्स धर्मः शरण सुधांशुः सुधामिवान्तः करुणां दधानः ॥ १२७ ॥
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy