________________
सर्ग १७ : श्लो० १२८-१२९ ]
हीरसौभाग्यम्
८३७
स धर्मः शरणं भवभीतस्य मम रक्षको भूयातः । किंभूतः । अन्तर्मध्ये करुणां सर्वतत्त्वेषु कृपां दधानः । अजिनाज्ञापूर्वकदयामयो धर्म इत्यर्थः । क इव । सुधांशुरिव । यथा चन्द्रो मध्ये निजमण्डलान्तराले सुधाममृतं धत्ते । यो धर्मः अतिभीमे अतिशयेन भीतिकारिणि भववारिधौ संसारसमुद्रे मजजनस्य ब्रुडतो लोकस्य करावलम्बो हस्तावलम्बनमिवास्ति । हस्ते गृहीत्वा कर्षतीत्यर्थः । यथा कश्चिदगाधजलनिधिमजन्तं कंचिज्जन्तु हस्ताभ्यां गाढमादाय बहिः कर्षति तद्वदास्ते ॥ इत्यर्हत्सिद्धसाधुधर्माणां चतुर्णा शरणम् ।।
કાર્થ
અતિભયંકર સંસારરૂપી સમુદ્રમાં ડૂબતા અને માટે હસ્તાવલંબનરૂપ, તેમજ ચન્દ્ર જેમ મધ્યમાં અમૃતને ધારણ કરે છે તેમ મધ્યમાં કરૂણા(દયા)ને ધારણ કરે છે તે ધર્મ મને શરણરૂપે થાઓ.” મે ૧૨૭
ज्ञाने ममाष्टौ समयादिकातीचाराः प्रमादा इव शुद्धधर्म । शङ्कादिका अष्ट च दर्शनेऽतीचारा मदा देहभृतीव जाताः ॥ १२८ ॥ कर्माणि जन्ताविव ये ममातीचाराः पुनर्मातृगताश्चरित्रे । मिथ्यासतां ते बहुगीवाचो व्याहारवन्मे निखिला इदानीम् ।। १२९ ।।
ममाष्टौ अष्टसंख्याकाः ज्ञाने ज्ञानाचारे अतीचाराः संजाताः । किंभूताः । समयः काल आदौ येषां कालविनयबहुमानोपधानहीन निवव्यञ्जनार्थतदुभयहीना एतेऽष्ट ज्ञानातीचाराः।
रख । प्रमादा इव । यथा शुद्धे जिनभाषिते धर्म मद्य-विषय-क्रोध-मान-माया-लोभनिवा-विकथानामानोऽष्टप्रमादाः स्युधमे विषयेऽमी प्रमादा भविनां भवेयुः। च पुनर्ये मम दर्शने सम्यक्त्वे दर्शनाचारे शङ्का-आकाङ्क्षा-विचिकित्सा-मूढदृष्टता-अनुपम-बंहणाकरण-असाधर्मिकवात्सल्य-अप्रभावना इत्यभिधाना अष्टो अष्टप्रमाणा अतीचाराः संपम्नाः । सायथा जने जाति-कुल-बल-ज्ञान-ऐश्वर्य-रूप-तपो-लब्धिरूपा अष्टौ मदा मवन्ति । पन चरित्रे चारित्राचारे अनिर्यासमिति-अभाषासमिति-अनेषणासमिति-अनादाननिक्षे पासमिति-अपारिष्टापनिकासमिति-अमानागुप्ति-अवचन गुप्ति-अकायगुप्तिः इति संज्ञा मातगता अष्ट प्रवचनमातृसंबन्धिनोऽतीचारा जाताः । कानीव । कर्माणीव । यथां जन्तौ प्राणिनिविषये ज्ञानावरणीय-दर्शनावरणीय-मोहनीय-वेदनीय-अन्तराय-नाम-गोत्र-आयुः इत्य. जो कर्माणि जायन्ते । सांसारिके जीवे इति शेषः । ते निखिलाः सर्वेऽपि चतुर्विशतिर. तीचाराः इदानीमस्मिन्नायुरन्तसमये मम ते ममातीचारा मिथ्या मूषा आसतां भवन्तु ।