Book Title: Heersaubhagya Mahakavyam Part 03
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah
________________
सर्ग १७ : लो० १०८ - १०९ ]
हीरसौभाग्यम्
निर्मितवान् । पुनर्यो वशीशः जितेन्द्रियेन्द्रः योगिजम्भारातिः शतशः शतसंख्याकान शिष्यान् विनेयान् अदीक्षयत् दीक्षां ग्राहयति स्म । किंभूतः । शिष्यीकृतो बुद्धया शास्त्रपरिज्ञानेन च निज्ञान्तेवासिविहितः शक्रसूरिः पुरंदराचार्यः बृहस्पतिर्येन । 'ईदृशीं गिर मुदी बिडौजाः जोषमासनविशिष्य बभाषे । नात्र चित्रमभिधाकुशलत्वे शैशवावधि गुरुर्गुरुरस्य' || इति सूरेरातपस्यासमयं तपः क्रियानुष्ठानादिवर्णनम् ||
શ્લેાકા
આચાય દેવે પોતાની વિશુદ્ધ મનેાવૃત્તિની જેમ કેટલાક નવ ગ્રંથાન' સર્જન અને પ્રાચીન ગ્રંથાનું સ ંશાધન કર્યુ હતું. પોતાની પ્રતિભાશક્તિથી જેમણે બૃહસ્પતિને શિષ્યરૂપે ખનાન્યેા છે તેવા આચાય દેવે સે કડા શિષ્યાને પ્રવ્રજ્યા પ્રધાન (દીક્ષા) કર્યું હતું ॥ ૧૦૭ ૫
यत्पण्डिताः सार्धशतं बभूवुः संप्राप्त सिद्धान्त पयोधिपाराः । दिवेर्ष्ययैकं धिषणं दधत्या वागीश्वराः किं विधृता धरित्र्या ॥ १०८ ॥
८२७
यस्य सूरेः पण्डिताः प्रज्ञांशपदधारिणः सार्धशतमेकपञ्चाशदुत्तर शत ' संख्या येषां तादृशा बभूवुः संजाताः । किंभूता । संप्राप्तोऽधिगतः सिद्धान्तस्यागमस्य उपलक्षणात् स्वसमयपरसमय प्रवर्तमानशास्त्रसंदोहस्वरूपस्य पयोधेः समुद्रस्य पारो यैस्ते । उत्प्रेक्ष्यतेएकमेव धिषण बृहस्पतिम् । 'वाचस्पतिर्द्वादशाचिर्धिषणः फाल्गुनीभवः' इति हैम्याम् । दधत्या धारयन्त्या दिवा स्वर्लोकेन अमरावत्या वा सममीयया स्पर्धया धरित्र्या धरित्रीभुषा सार्घशत वागीश्वराः सुराचार्या विधृताः किं त्रियन्ते स्म इव ॥
શ્લેાકાથ
સિદ્ધાંતરૂપી સમુદ્રના પાર પામનારા અર્થાત્ સ્વપરશાસ્ત્રના પારગામી એવા ૫'ડિતપદ્મ(પન્યાસપદ)ને ધારણ કરનારા પચાસ (૫૦) શિષ્યેા હતા. તે જાણે સ્વર્ગલેાકની સાથે સ્પર્ધા કરતી પૃથ્વીએ પચાસ બૃહસ્પતિએ ધારણ કર્યા ન હોય !! ૧૦૮ ૫
सप्ताभवन्वाचकवारणेन्द्रा यस्योल्लसद्वाग्लहरीविलासाः । गाम्भीर्यभाजो गुणरत्नपूर्णास्तरङ्गिणीनामिव जीवितेशाः ॥ १०९ ॥
Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444