________________
७८६
होरसौभाग्यम्
[ सर्ग १७ : श्लो० ३४-३५
दुर्दैवयोगाजलधौ : जम्भे तदा कुतश्चिज्जलदस्तमोवत् । चिखेल योषेव तडित्तदके जगर्न मत्तेभ इवोत्कटं सः ॥ ३४ ॥
तदा तस्मिन् सागरव्यवहारिणः वारिधिमध्यगमनसमये दुर्दैवयोगादभाग्योदयात् प्रभावाजलधौ पयोधेरुपरि गगनभागे जलदोऽतिप्रबलपयोधरः कुतचित्करमाच्चन स्थानादागत्य जजृम्भे नभोमण्डले परितः प्रससार । किंवत् । तमोवत् यथान्धकार कुतश्चिद्विरिगहरादिभ्य आगत्य जृम्भति द्यावाभूम्योः प्रसरति । पुनस्तस्य जलदस्याङ्के उत्सङ्गे। मध्ये इन्यर्थः । तडिद्विधुच्चिखेल चिक्रीड चमत्कार कुरुते स्म । केव। योषेत्र । यथा वाणिनी नायिका स्वनायकाके वैलायति । पुनः स जलदो मत्तेभ इव । वारुणीयायिमदोद्धतीभूतनूतगन्धसिन्धुर इव उत्कट कर्णकटुक यथा स्यानथा भैरव जगर्ज गर्जारव चकार ॥
પ્લેકાર્થ
તે વખતે દુર્ભાગ્યવશાત્ સમુદ્રમાં ભયંકર તેફાન થયું અને સ્ત્રીઓની જેમ વીજળી એના વિલાસે થયા તેમજ મદેન્મત્ત હાથીની જેમ મેઘની ભયંકર ગર્જનાઓ સાથે વર્ષો થવા લાગી. એ ૩૪ છે.
ततोऽहिकान्तः परिवर्तवात इव प्रवृत्तः परितः पयोधौ। कपोतपोता इव तस्य पोता निपेतुरुत्पत्य नभस्यधस्तात् ॥३५॥
ततः प्रबलपयोधिपटलप्रसरणानन्तरं परिवर्तवातः कल्पान्तकालसंबन्धी समीरण इव । 'कल्पो युगान्तः कल्पान्तः संहारः प्रलयः क्षयः। संवतः परिवर्तश्च' इति हैम्याम । अहिकान्तः प्रचण्डपवनः । 'वातोऽहिकान्तपवमानमरुत्प्रकम्पनाः' इत्यपि हैम्याम् । परितः समुद्रमध्ये सर्वत्र प्रवृत्तः प्रवर्तते स्म । प्रसरति स्मेत्यर्थः । ततः पवनप्रवृत्तेरनन्तः तस्य सागरव्यवहारिणः पोता वहनानि नभसि उत्पत्य अत्युद्भटविकटप्रभञ्जनवं हिमरंहःसंदोहोच्छालितानि गगनाङ्गणान्तरुड्डीयोड्डीय अधस्तात्पुनः पयोधिमध्ये निपेतुः पतन्ति स्म । के इव । कपोतपोता इव । यथा पारावतपृथुका व्योमन्युड्डीयाधस्ताद्धरणीपीठे निपतन्ति ॥
શ્લેકાર્થ
ત્યારે સમુદ્રમાં કલ્પાંતકાળના પવનની જેમ ચારે બાજુ પ્રચંડ પવન પ્રગટ થયે, તેથી પારેવાંનાં બાળકની જેમ યાનપાત્ર આકાશમાં ઊડી ઊડીને નીચે પડવા લાગ્યાં. ૩૫