________________
सर्ग १७ : श्लो ३३]
हीरसौभाग्यम्
व्रतीन्दुर्वाचंयमचन्द्रमाः सूरिः वापि कुत्रापि स्थाने तद्देवगृहबहिर्धर्मशालायामुपविश्यासित्वा अङ्गभृतां भविकजन्तूनां पुरस्तादग्रे इत्यमुना प्रकारेणाग्रे वक्ष्यमाण तस्याजयपार्श्वनाथबिम्बस्य माहात्म्यं प्रभावमकीतयत् विस्तारयति स्म । 'कीतण यशसि विस्तारे' इति धातुः । उक्तवान् । किं कृत्वा । अत्र प्रासादे प्रीत्या प्रमोदेन । 'मुत्प्रीत्यामोदसंमदा । आनन्दानन्दथू' इति हैम्याम् । अजयपाश्रमजयपार्श्वनाथप्रतिमां प्रणत्य नमस्कृत्य । व्यवस्थितबिकल्पत्वान्मितानिटां वा तुक । 'आगम्यागत्य प्रणम्य प्रणत्य' इति प्रक्रियाकौमुद्याम् । च पुनः किं कृत्वा। अभिष्टत्य स्तुत्वा । क इव । वृत्रारिरिव । यथा इन्द्रः शक्रः स्तवादिना जिन स्तौति ॥
પ્લેકાર્થ
આચાર્યદેવે અજારા પાર્શ્વનાથ ભક્તિપૂર્વક પ્રણામ કરીને અને ઈન્દ્રની જેમ સ્તુતિ કરીને જિનચૈત્યની બહાર ધર્મશાળામાં બેસીને ભવ્યજીવોની આગળ પ્રગટ પ્રભાવ શ્રી અજારા પાર્શ્વનાથને મહિમા વર્ણવ્યું. જે ૩૨ છે
कश्चिन्महेभ्यो व्यवहर्तुमब्धिमध्याध्वना प्रास्थित सागराहः । क्वास्त्यत्र पुत्री जलधेर्निभाल्य गृह्णाम्यहं तामिति किं वितयं ॥ ३३ ॥
कश्चित्कोऽप्यज्ञातपूर्वस्वरूपः सागर इत्याढा नाम यस्य तादृशो महेभ्य इभप्रमाणं धनमः स्तीति इभ्यस्ततोऽप्यधिकद्रव्यो महेभ्यो व्यवहारी व्यवहर्तुम् । 'जहालहौतहालोहो लहो लोहो पवई' इति वचनात् । अधिकधनाकाङ्क्षया व्यापार कर्तुमब्धिमध्याध्वना समुद्रान्तरालया. यिना मार्गेण प्रास्थित प्रस्थितवान् । समुद्रे यानपात्रे चढति स्मेत्यर्थः । उत्प्रेक्ष्यते इति किं वितयं विचारयित्व । इति किम् । यदत्राम्भोधेजलधेर्वा रिराशेः पुत्री नन्दना लक्ष्मीः क्वास्ति कुत्र विद्यते निभाल्य सम्यगिरीक्ष्य तां समुद्रसुतां श्रियमहं गृहणामि ॥
લેકાર્થ
કઈ “સાગર” નામના શ્રેષ્ટિએ વ્યાપાર કરવા માટે સમુદ્રમાર્ગે પ્રયાણ કર્યું હતું, તે જાણે “સમુદ્રની પુત્રી લક્ષમી ક્યાં છે, તેને શોધીને હું ગ્રહણ કરું !” આ પ્રમાણે વિચારીને गए समुद्रमागे प्रयाय ४यु न य ! ॥ 33 ।।
हि सौ० ९९