SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ L-MAnne सर्ग १७ : श्लो० ३६-३७] हीरसौभाग्यम् ७८८७ रङ्गत्तरङ्गावलिरम्बुराशेरालम्बमानाम्बरमम्बुपूरैः । राजी गिरीणामिव तुङ्गिमानमाबिभ्रती प्रादुरभूत्तदानीम् ॥ ३६॥ तदानीं निखिलाम्बरमण्डलाखण्डाडम्बरितदुर्धरवारिधराविर्भवनादनुपरितः प्रवृत्तपरिवर्तपथमानसमानामानाकाण्डप्रकटीभवत्प्रचण्डपवनप्रसरणसमये अम्बुराशेः समुद्रस्य रङ्गन्ती दशदिग्विभागेषु प्रचलन्ती तरङ्गाणां कल्लोलानामावलिः श्रेणिः प्रादुरभवत्प्रकटीभवति स्म । किं कुर्वाणा। अम्बुरैः पयःप्लवैः । जलभरैरित्यिर्थः । कृत्वा अम्बरमाकाशमालम्बमाना आश्रयन्ती । प्रौढा पवनप्रोच्छलजलकल्लोलेर्जलधिव्योममण्डलावेकीभूताविव लक्ष्येते । किं कुर्वती तरङ्गावलिः । गिरीणां राजिः पर्वतानां पङ्क्तिरिव तुङ्गिमानमत्युच्चभावनाबिभ्रतीधारयन्ती। શ્લેકાર્થ તે અવસરે સમુદ્રમાં પાણીના પૂર વડે આકાશમાર્ગનું અવલંબન કરતા ઊંચા ઊંચા પર્વતે જેવા ભયંકર જલતરંગે પ્રગટ થયા. | ૩૬ . पाठीनपीठाण्डजनक्रचक्रकुम्भीरपुञ्ज प्रकटीभवद्भिः । वन्यैरिवारण्यमगण्यहिनैर्भयानकोऽम्भोधिरभूत्तदास्य ॥ ३७ ॥ तदा तस्मिन्मेघागमप्रक्रमे तस्य सागरमहेभ्यस्य अम्भोधिः समुद्रो भयानको भयंकरो बभूव । कैः। प्रकटीभवद्भिः दृग्गोचरीभवद्भिः हग्गोचरमागच्छद्भिः पाठीनपीठा मत्स्य विशेषा अण्डजा: सामान्यमत्स्याः नक्राश्चकास्तथा कुम्भीराणां पुञ्जा व्रजा मकरजातिविशेषास्तैः कृत्वा भीमम् । किमिव । अरण्यमिव । यथा वन्यैः काननजन्मभिः अगण्यैर्गणतितुमशक्यैगणनातीत हिरेः हिंसनशीलैः श्वापदैाघ्रसिंहाष्टापदादिकैजन्तुघातकसंततिभिरटवी भयकारिणी भवेत् ॥ इति जलदोदयः ॥ બ્લેકાર્થ જેમ હિંસક અને શિકારી પશુઓથી જંગલ ભયાનક લાગે તેમ દ્રષ્ટિગોચર થતા મગરમચ્છો, સામાન્ય મ, નક્ર ચક્ર અને જલહસ્તિઓથી સાગરશ્રેષ્ઠિના માટે સમુદ્ર ભયાનક બની ગયે. . ૩૭
SR No.005969
Book TitleHeersaubhagya Mahakavyam Part 03
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1979
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy