________________
७८८
हीरसौभाग्यम्
[सर्ग १७ : श्लो० ३८-३९
क्रोधोद्धतं व्यालमिवोपयान्तं प्रकोपितं दुष्टमिवाथ चण्डम् । स सागरो भैरवसागरं तं द्रष्टुं न दृष्टयापि तदा शशाक ॥ ३८॥
स यानपात्रेण समुद्रमध्ये समेतः सागरनामा व्यवहारी यदा यस्मिन् समये त स्फुरदमन्दमेदुरमुदिरमण्डलाकलित प्रचण्डप्रभञ्जनप्रक्षुभ्यत्तयःप्रसरत्प्रतिदिगन्ततुङ्गतरङ्गभर भैरव भयावह सागर समुद्र दृष्ट्यापि लोचनेनापि द्रष्टुं विलोकयितु न शशाक नैव समर्थीबभूव । कमिव । व्यालमिव । यथा क्रोधेन कोपाटोपेन कृत्वा उद्धतमुत्कट सुभटकोठ्यापि कलयितुमाक्रमितुमशक्य तथा उपयान्त संमुखमागच्छन्त व्याल दुष्टगज 'घुनी' इति प्रसिद्धम् । अथ वा पूर्वोक्तविशेषणविशिष्टं गारुडिकैरपि कलयितुमशक्य दुष्टसर्पमिव । अथ वा वन्यजीवैराक्रमितुमशक्य शापदमिव । अथ वा चित्रकव्याघ्रादिभिरनाक्रमणीय कण्ठीरवमिव । अथ वा गन्धसिन्धुरादिभिरनाकलनीय शरभमिव । 'व्यालो दुष्टगजे सर्प खले श्वापदसिंहयोः' इत्यनेकार्थः। अथ पुनः कमिव । प्रकोपित केनापि प्रकारेण प्रकोपितं महाकोपं प्रापितत् । तथा चण्डं दुष्टाशय दुर्दन्तिन वा दुष्टं दुर्जनमिव ।
કા
સામે આવતા કે ધાતુર બનેલા મદોન્મત્ત હાથીની જેમ, અથવા દુષ્ટ સર્ષની જેમ અથવા ક્રોધાતુર બનેલા દુર્જનની જેમ ભયંકર સાગર સાગ શ્રેષિને જોવા માટે પણ દશકય બની ગયે. અર્થાત્ તે અવસરે સમુદ્ર દુરાવલેકનીય બની ગયો. એ ૩૮ છે
संवर्तवत्तत्र तदा स्वपोतलोकक्षयं प्रेक्षितुमक्षमः सन् । विलासवाप्यामिव वार्धिमध्ये यावत्स झम्पां प्रगुणः प्रदत्ते ।। ३९ ॥
स सागर श्रेष्ठी यावत यावत्प्रमाणेन समयेन प्रगुण उत्साहवान सन् वस्त्रायश्चलसंवरणेन बद्धकच्छो वा वार्धिमध्ये समुद्रान्तः झम्पां संपातपाटवम् । जले निपतनमित्यर्थः । प्रदत्ते। कस्यामिव । विलासबाप्यामिव । यथा कश्चिजलकेलिकरणप्रवणः क्रीडादीर्घिकायां झम्पां दत्ते । किंभूतः सन् समुद्रसलिले पतति । तदा तस्मिन्मेघोत्पातसमये तत्र क्षुब्धपयोधिमध्ये संवर्तवकल्पान्तकाल इव स्वपोतलोकानां जिनयात्रारूढानेकसांयात्रिकजनानां क्षय संहार प्रेक्षितुं स्वयमालोकितुमक्षमः असमर्थः सन् । मया कथ कथंचिन्मद्यानपात्रमध्येऽधिरोपिता पतावन्तो लोका पककाल प्रलय लप्स्यन्ते । तदेतेषां मदाश्रितानां लोकानां क्षयमहमात्मदृष्टया द्रष्टुं न.लमिति तत्प्रथममेव मर्तुकामो यावजलधौ झ पां प्रदत्ते इत्यर्थः ॥ इति सागरस्य सागरे पिपतिषा ॥