Book Title: Heersaubhagya Mahakavyam Part 03
Author(s): Devvimal Gani, Sulochanashreeji
Publisher: Kantilal Chimanlal Shah

Previous | Next

Page 365
________________ ८१४ हीरसौभाग्यम् [सर्ग १७ : श्लो० ८७-८८ શ્લેકાર્થ ચરિત્રલકમીના સ્વામી આચાર્યદેવ કઈ સમયે ગંભીર ધ્વનિથી સ્વાધ્યાય કરતા હતા, તે ધ્વનિ જાણે જલથી પરિપૂર્ણ મેઘને ઉદ્દામ ગરવ ન હોય ! ! ૮૬ છે तत्र प्रतिष्ठात्रितयीमतुच्छोत्सवोच्छलच्छेकमनःप्रमोदाम् । चक्रे मुनीन्द्रो भुवनत्रयस्याधिपत्यलक्ष्मी स्पृहयन्निवान्तः ॥ ८७ ॥ तत्रोन्नतनगरे मुनीन्द्रो हीरसरिः प्रतिष्ठात्रितयीं शतसहस्रशो भगवत्प्रतिमाप्रतिष्ठापनरुपाणां प्रतिष्ठानां त्रिक चक्रे व्यधत्त । किंभृताम् । अतुच्छोऽत्यभ्यधिको यत्र उत्सवो महामहास्तेन उच्छलन्वर्धमानः छेकानां विदग्धानां मनसि स्वान्ते प्रमोदो हर्षों यस्याम् । उत्प्रेक्ष्यते-अन्तः स्वचित्ते भुवनत्रयस्य त्रैलोक्यस्याधिपत्यलक्ष्मी राज्य श्रियं स्पृहयन् वाञ्छन्निव ॥ શ્લેકાર્થ આચાર્યદેવે ઊના નગરમાં, જેમાં પંડિતપુરુષનાં ચિત્તમાં આનંદ વધી રહ્યો છે તેવા વિશિષ્ટ પ્રકારના મહત્સવપૂર્વક ત્રણ પ્રતિષ્ઠા મહોત્સવ કરાવીને જિનબિંબની પ્રતિષ્ઠા કરાવી. તે જાણે અંતરમાં ત્રણ લોકની રાજ્યલક્ષ્મીની સ્પૃહા કરતા ન હોય ! ! ૮૭ उग्रं तपो धन्य इवानुतिष्ठन्नाद्यं चतुर्मासकमाततान । अपाटवात्किचन काययष्टेः पुनर्द्वितीयं कुरुते स्म तस्मिन् ॥८८॥ स वरिस्तस्मिन्नुन्नतनगरे आद्य विमलाचलयात्रां कृत्वा तत्र गमनानन्तर प्रयम चतु. मांसक वर्षा रात्रमाततान करोति स्म । किं कुर्वन् । उग्रमत्यत्कटघोर षष्ठाटमादिममतिका विकृष्टं तपोऽनुतिष्ठन् विदधत् । क इव । धन्य इव । यथा काकन्दीसत्को द्वात्रिंशत्कनकोटी. कामिनी द्वात्रिंशदभूमिकप्रासादमौक्ता धन्यनामानगारः उग्रं षष्ठाचामाम्लनि अनुतिष्ठति स्म । पुनर्वितीयवारं काययष्टेः शरीरस्य किंचन किमपि अपाटवादपटुत्वात्प्रबलरोगादिना मन्दस्वादिकारणात द्वितीय द्वयोः संख्यापूरणम् । कम् । चतुर्मासक तस्मिन्नेवोन्नतपुरे कुरुते स्म ॥ अथ सरेर्दाक्षादानदिनादारभ्य यत्किचित्तपो विहित तदुच्यते परिवारश्च

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444