Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 208
________________ द्रव्यसंग्रहवृत्तिः । गाथा-१४।१५ पुनरन्तरात्मबहिरात्मद्वयं भूतपूर्वनयेनति । अथ त्रिधात्मानं गुणस्थानेषु योजयति । मिथ्या सासादनमिश्रगुणस्थानत्रये तारतम्यन्यूनाधिकभेदेन बहिरात्मा ज्ञातव्यः, अविरतगुणस्थाने तद्योग्याशुभलेश्यापरिणतो जघन्यान्तरात्मा, जीगकपायगुगन्याने पुनरुत्कृष्टः, अविरतक्षीणकषाययोर्मध्ये मध्यमः, सयोग्ययोगिगुणधानी विवक्षितैकदेशशुद्धनयन सिद्धसदृशः परमात्मा, सिद्धस्तु साक्षात्परमात्मेति । अत्र बहिरात्मा हेयः, उपादेयभूतस्यानन्तसुखसाधकत्वादन्तरात्मोपादेयः, परमात्मा पुनः साक्षादुपादेय इत्यभिप्रायः । एवं पड्व्यपञ्चाम्तिकायप्रतिपादकप्रथमाधिकारमये नमस्कारादिचतुर्दशगाधाभिर्नवभिरन्तस्थलैर्जीवद्रव्यकथनरूपण प्रथमोऽन्तराधिकारः समाप्तः ॥१४॥ ___ अतःपरं यद्यपि शुद्धबुद्धकस्वभावं परमात्मद्रव्यमुपादेयं भवति तथापि हेयरूपस्याजीवद्रव्यस्य गाथाष्टकेन व्याख्यानं करोति । कस्मादिति चेत्-हेयतत्त्वपरिज्ञाने सति पश्चादुपादेयस्वीकारो भवतीति हेतोः । तद्यथा व्याख्या "अज्जीवो पुण णेओ' अजीवः पुनर्जेयः । सकलविमलकेवलज्ञानदर्शनद्वयं शुद्धोपयोगः, मतिज्ञानादिरूपो विकलो शुद्धोपयोग इति द्विविधोपयोगः, अव्यक्तसुखदुःग्वानुभवनम्पा कर्मफलचेतना, तथैव मतिज्ञानादिमनः पर्ययपर्यन्तमशुद्धोपयोग इति, म्हापूर्वेष्टानिष्टविकल्पम्पेण विशेषरागद्वेषपरिणमनं कर्मचेतना, केवलज्ञानरूपा शुद्धचेतना इत्युक्तलक्षणोपयोगश्चेतना च यत्र नास्ति स भवत्यजीव इति विज्ञेयः । पुनः पश्चाज्जोवाधिकारानन्तरं "पुग्गल धम्मो अधम्म प्रायासं कालो" स च पुलधनीधीकाशकालचभेदेन पञ्चधा। पूरणगलनस्वभावत्वात्पुद्गल इत्युच्यते । गतिस्थित्यवगाहवर्त्तनालक्षणा धर्माधर्माकाशकालाः, "पुग्गल मुत्तो' पुद्गलोमूतः । कस्मात् “ख्वादिगुणो' रूपादिगुणसहितो यत: । "अमुत्ति सेसा दु" रूपादिगुणाभावादमूर्त्ता भवन्ति पुद्गलाच्छेषाश्चत्वार इति । तथाहि यथा अनन्तज्ञानदर्शनसुखवीर्यगुणचतुष्टयं सर्वजीवसाधारणं तथा रूपरसगन्धस्पर्शगुणचतुष्टयं सर्वपुद्गलसाधारणं, यथा च शुद्धबुद्धकस्वभावसिद्धजीवे अनन्तचतुष्टयमतीन्द्रियं तथैव शुद्धपुद्गलपरमाणुद्रव्ये रूपादिचतुष्टयमतीन्द्रियं, यथा रागादिस्नेहगुणेन कर्मबन्धावस्थायां ज्ञानादिचतुष्टयस्याशुद्धत्वं तथा स्निग्धरूक्षत्वगुणेन द्वनणुकादिबन्धावस्थायां रूपादि

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324