Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 258
________________ द्रव्यसंग्रहवृत्तिः । गाथा-४१ व्याख्याय तदनन्तरं द्वितीयस्थले: 'सम्यक्तादित्रयंक्रमण विवृणेति । तत्रादौ सम्यक्त्वमाह। व्याख्या। “जीवादीसद्दहणं सम्मत्त" वीतरागसर्वज्ञप्रणीतशुद्धजीवादितत्त्वविषये चलमलिनावगाढरहितत्वेन श्रद्धानं रुचिनिश्चय इदमेवेत्थमेवेति निश्चयबुद्धिः सम्यग्दर्शनम् । “रूवमप्पणो तं तु" तच्चाभेदनयेन रूपं स्वरूपं तु पुनः कस्यात्मन आत्मपरिणाम इत्यर्थः । तस्य सामर्थ्यमाहात्म्यं दर्शयति । “दुरभिणिवेसविमुक्कं णाणं सम्मं खु होदि सदि जम्हि " यस्मिन् सम्यक्त्वे सति ज्ञानं सम्यग भवति स्फुटं कथम्भूतं सम्यग्भवति “दुरभिणिवेसविमुक्क" चलितप्रतिपत्तिगच्छत्त णस्पर्शशुक्तिकाशकलरजतविज्ञानसदृशं संशयविभ्रमविमोहैमुक्तं रहितमित्यर्थः । इतो विस्तारः-सम्यक्त्वे सति ज्ञानं सम्यग्भवतीति यदुक्तं तस्य विवरणं क्रियते । तघाहि-गौतमामिभूतिवायुभूतिनामानो विप्राः पञ्चपञ्चशतब्राह्मणोपाध्याया वेदचतुष्टयं, ज्योतिष्कव्याकरणादिषडङ्गानि, मनुस्मृत्याद्यष्टादशस्मृतिशास्त्राणि तथा भारताद्यष्टादशपुराणानि मीमांसान्यायविस्तर इत्यादिलौकिकसर्वशास्त्राणि यद्यपि जानन्ति तथापि तेषां हि ज्ञानं सम्यक्त्वं विना मिथ्याज्ञानमेव । यदा पुनः प्रसिद्धकथान्यायेन श्रीवीरवर्द्धमानस्वामितीर्थकरपरमदेवसमवसरणे मानस्तम्भावलोकनमात्रादेवागमभाषया दर्शनचारित्रमोहनीयोपशमक्षयसंज्ञेनाध्यात्मभाषया स्वशुद्धात्माभिमुखपरिणामसंज्ञेन च कालादिलब्धिविशेषेण मिथ्यात्वं विलयं गतं तदा तदेव मिथ्याज्ञानं सम्यग्ज्ञानं जातम् । ततश्च "जयति भगवान्" इत्यादि नमस्कारं कृत्वा जिनदीक्षां गृहीत्वा कचलोचानन्तरमेव चतुर्ज्ञानसप्तर्द्धिसम्पन्नास्त्रयोऽपि गणधरदेवाः संजाताः । गौतमस्वामी भन्योपकारार्थ द्वादशाङ्गश्रुतरचनां कृतवान् । पश्चान्निश्चयरत्नत्रयभावनाबलेन त्रयोऽपि मोक्षं गताः । शेषाः पञ्चदशशतप्रमितब्राह्मणा जिनदीक्षां गृहीत्वा यथासम्भवं स्वर्ग मोक्षं च गताः । अभव्यसेनः पुनरेकादशाङ्गधारकोऽपि सम्यक्त्वं विना मिथ्याज्ञानी सञ्जात इति । एवं सम्यक्त्वमाहात्म्येन ज्ञानतपश्चरणव्रतोपशमध्यानादिकं मिथ्यारूपमपि सम्यग्भवति । तदभावे विषयुक्तदुरशासित सर्व वृथेति ज्ञातव्यम् ।

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324