Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 266
________________ द्रव्यसंग्रहवृत्तिः। गाथा-४२ गताकाशगतहरमेखलादिमायास्वरूपशाकिन्यादिरूपपरावर्तनभेदेन चूलिका पञ्चविधा चेति संक्षेपेण द्वादशाङ्गव्याख्यानम् । अङ्गबाह्यं पुनः सामायिक, चतुर्विशतिस्तवं, वन्दना, प्रतिक्रमणं, वैनयिक, कृतिकर्म, दशवैकालिकम् उत्तराध्ययनं, कल्पव्यवहारः, कल्पाकल्पं, महाकल्पं, पुण्डरीक, महापुण्डरीकं, अशीतिकं चेति चतुर्दशप्रकीर्णकसंज्ञ बोद्धव्यमिति। अथवा वृषभादिचतुर्विशतितीर्थङ्करभरतादिद्वादशचक्रवर्त्तिविजयादिनवबलदेवत्रिपिष्टादिनववासुदेवसुग्रीवादिनवप्रतिवासुदेवसम्बन्धित्रिषष्टिपुरुषपुराणभेदभिन्नः प्रथमानुयोगो भण्यते । उपासकाध्ययनादौ श्रावकधर्मम् , आचाराराधनादा यतिधर्म च यत्र मुख्यत्वेन कथयति स चरणानुयोगो भण्यते । त्रिलोकसारजिनान्तरलोकविभागादिग्रन्थव्याख्यानं करणानुयोगो विज्ञेयः । प्राभृततत्त्वार्थसिद्धान्तादौ यत्र शुद्धाशुद्धजीवादिषडद्रव्यादीनां मुख्यवृत्त्या व्याख्यानं क्रियते स द्रव्यानुयोगो भण्यते । इत्युक्तलक्षणानुयोगचतुष्टयरूपेण चतुर्विधं श्रुतज्ञानं ज्ञातव्यम् । अनुयोगोऽधिकारः परिच्छेदः प्रकरणमित्यायेकोऽर्थः । अथवा षड्द्रव्यपञ्चास्तिकायसप्ततत्स्वनवपदार्थेषु मध्ये निश्चयनयेन स्वकीयशुद्धात्मद्रव्यं, स्वशुद्धजीवास्तिकायो, निजशुद्धात्मतत्त्वं, निजशुद्धात्मपदार्थ उपादेयः। शेषं च हेयमिति संक्षेपेण हेयोपादेयभेदेन द्विधा व्यवहारज्ञानमिति ॥ ___ इदानों तेनैव विकल्परूपत्व्यवहारज्ञानेन साध्यं निश्चयज्ञानं कथ्यते । तथाहि-रागात् परकलत्रादिवाञ्छारूपं, द्वेषात् परवधबन्धच्छेदादिवाञ्छारूपं च मदीयापध्यानं कोऽपि न जानातीति मत्वा खशुद्धात्मभावनासमुत्पन्नसदानन्दैकलक्षणसुखामृतरसनिर्मलजलेन चित्तशुद्धिमकुर्वाणः सन्नयं जीवो बहिरङ्गबकवेषेण यल्लोकरञ्जनां करोति तन्मायाशल्यं भण्यते । निजनिरञ्जननिर्दोषपरमात्मैवोपादेय इति रुचिरूपसम्यक्त्वाद्विलक्षणं मिथ्याशल्यं भण्यते । निर्विकारपरमचैतन्यभावनोत्पन्नपरमाह्लादैकरूपसुखामृतरसास्वादमलभमानायं जीवो दृष्टश्रुतानुभूतभोगेषु यन्नियतं निरन्तरं चित्तं ददाति तन्निदानशल्यमभिधीयते । इत्युक्तलक्षणशल्यत्रयविभावपरिणामप्रभृतिसमस्तशुभाशुभसङ्कल्पविकल्परहितेन परमस्वास्थ्यसंवित्तिसमुत्पन्नतात्त्विकपरमानन्दैकलक्षणसुखामृत

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324