Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 265
________________ ७८ द्रव्यसंग्रहवृत्तिः । गाथा-४१ । ४२ मको स्यातां पर्याप्तदेहिनाम् ।१।” इति निश्चयव्यवहाररत्नत्रयात्मकमोक्षमार्गावयविनः प्रथमावयवभूतस्य सम्यक्त्वस्य व्याख्यानेन गाथा गता ॥ ४१ ॥ अथ रत्नत्रयात्मकमोक्षमार्गद्वितीयावयवरूपस्य सम्यग्ज्ञानस्य स्वरूपं प्रतिपादयति । ___ व्याख्या । “संसयविमोहविभमविवज्जियं” संशयः शुद्धात्मतत्त्वादि प्रतिपादकमागमज्ञानं किं वीतरागसर्वज्ञप्रणीतं भविष्यति ? परसमयप्रणीतं वेति संशयः । तत्र दृष्टान्तः-स्थाणुर्वा पुरुषो वेति । विमोहः परस्परसापेक्षनयद्वयन द्रव्यगुणपर्यायादिपरिज्ञानाभावो विमोहः । तत्र दृष्टान्तः-च्छत्त णस्पर्शवहिग्मोहवद्वा । विभ्रमोऽनेकान्तात्मकवस्तुनो नित्यक्षणिकैकान्तादिरूपेण ग्रहणं विभ्रमः । तत्र दृष्टान्तः-शुक्तिकायां रजतविज्ञानवत् । इत्युक्तलक्षणसंशयविमोहविभ्रमैर्वर्जितं "अप्पपरसरुवस्स गहणं" सहजशुद्धकेवलज्ञानदर्शनस्वभावस्वात्मरूपस्य ग्रहणं परिच्छेदनं परिच्छित्तिस्तथा परद्रव्यस्य च भावकर्मद्रव्यकर्मनोकर्मरूपस्य जीवसम्वन्धिनस्तथैव पुद्गलादिपञ्चद्रव्यरूपस्य परकीयजीवरूपस्य च परिच्छेदनं यत्तत् "सम्मंणणं" सम्यग्ज्ञानं भवति । तच्च कथंभूतं "सायारं" घटोऽयं पटोय मित्यादिग्रहणव्यापाररूपेण साकारं सविकल्प व्यवसायात्मकं निश्चयात्मकमित्यर्थः । पुनश्च किंविशिष्टं "अणेयभेयं च" अनेकभेदं च पुनरिति । . .तस्य भेदाः कथ्यन्ते । मतिश्रुतावधिमनःपर्ययकेवलज्ञानभेदेन पञ्चधा । अथवा श्रुतज्ञानाऽपेक्षया द्वादशाङ्गमङ्गमङ्गबाह्य चेति द्विभेदम् । द्वादशाङ्गानां नामानि कथ्यन्ते । आचारं, सूत्रकृतं, स्थानं, समवायनामधेयं, व्याख्याप्रज्ञप्तिः, ज्ञातृकथा, उपासकाध्ययनं, अन्तकृतदर्श, अनुत्तरोपपादिकदर्श, प्रश्नव्याकरणं, विपाकसूत्रं, दृष्टिवादश्चेति । दृष्टिवादस्य च परिकर्मसूत्रप्रथमानुयोगपूर्वगतचूलिकाभेदेन पञ्च भेदाः कथ्यन्ते । तत्र चन्द्रसूर्यजम्बूद्वीपसागरव्याख्याप्रज्ञप्तिभेदेन परिकर्म पञ्चविधं भवति । सूत्रमेकभेदमेव । प्रथमानुयोगोऽप्येकभेदः । पूर्वगतं पुनरुत्पादपूर्व, अप्रायणीयं, वीर्यानुप्रवाद, अस्तिनास्तिप्रवाई, ज्ञानप्रवादं, सत्यप्रकादं, प्रात्मप्रवादं, कर्मप्रवाद, प्रत्याख्यान, विद्यानुवाद, कल्याणनामधेयं, प्राणानुवादं, क्रियाविशालं, लोकसंज्ञ', पूर्व, चेति चतुर्दशभेदम् । जलगतस्थल

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324