Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 278
________________ द्रव्यसंग्रहवृत्तिः । गाथा-५० अत्रावसरे भट्टचार्वाकमतं गृहीत्वा शिष्यः पूर्वपक्षं करोति।नास्ति सर्वज्ञोऽनुपलब्धेः । खरविषाणवत् । तत्र प्रत्युत्तरं-किमत्र देशेऽत्र काले अनुपलब्धिः , सर्वदेशे काले वा । यद्यत्र देशेऽत्र काले नास्ति तदा सम्मत एव । अथ सर्वदेशकाले नास्तीति भण्यते तज्जगत्रयं कालत्रयं सर्वज्ञरहितं कथं ज्ञातं भवता । ज्ञातं चेत्तर्हि भवानेव सर्वज्ञः । अथ न ज्ञातं तर्हि निषेधः कथं क्रियते । तत्र दृष्टान्त:—यथा कोऽपि निषेधको घटस्याधारभूतं घटरहितं भूतलं चक्षुषा दृष्ट्वा पश्चाद्वदत्यत्र भूतले घटो नास्तीति युक्तम् । यस्तु चरहितस्तस्य पुनरिदं वचनमयुक्तम् । तथैव यस्तु जगत्रयं कालत्रयं सर्वज्ञरहितं जानाति तस्य जगचये कालत्रयेऽपि सर्वज्ञो नास्तीति वक्तुं युक्तं भवति, यस्तु जगत्रयं कालत्रयं न जानाति स सर्वस्वज्ञनिषेधं कथमपि न करोति । कस्मादिति चेत्—जगत्रयकालत्रयपरिज्ञानेन स्वयमेव सर्वज्ञत्वादिति । ___अथोक्तमनुपलब्धेरिति हेतुवचनं तदप्ययुक्तम् । कस्मादिति चेत्-किं भवतामनुपलब्धिः, किं जगत्रयकालत्रयवर्तिपुरुषाणां वा ? यदि भवतामनुपलब्धिस्तावता सर्वज्ञाभावो न सिध्यति, भवद्भिरनुपलभ्यमानानां परकीयचित्तवृत्तिपरमाण्वादिसूक्ष्मपदार्थानामिव । अथवा जगत्रयकालत्रयवर्तिपुरुषाणामनुलब्धिस्तत्कथं ज्ञातं भवद्भिः । ज्ञातं चेत्तर्हि भवन्त एव सर्वज्ञा इति पूर्वमेव भणितं तिष्ठति । इत्यादि हेतुदूषणं ज्ञातव्यम् । अथोक्तं खरविषाणवदिति दृष्टान्तवचनं तदप्यनुचितम् । खरे विषाणं नास्ति गवादा तिष्ठतीत्यन्ताभावो नास्ति यथा तथा सर्वज्ञस्यापि नियतदेशकालादिष्वभावेऽपि सर्वथा नास्तित्वं न भवति इति दृष्टान्तदूषणं गतम् । ___ अथ मतम्-सर्वज्ञविषये बाधकप्रमाणं निराकृतं भद्भिस्तर्हि सर्वज्ञसद्भावसाधकं प्रमाणं किम् ? इति पृष्ट प्रत्युत्तरमाह-कश्चित् पुरुषो धर्मी, सर्वज्ञो भवतीति साध्यते धर्मः. एवं मर्मिधर्मसमुदायेन पक्षवचनम् । कस्मादिति चेत् पूर्वोक्तप्रकारेण बाधकप्रमाणाभावादिति हेतुवचनम् । किंवत् स्वयमानुभूयमानसुखदुःखादिवदिति दृष्टान्तवचनम् । एवं सर्वज्ञसद्भावे पक्षहेतुदृष्टान्तरूपेण व्यङ्गमनुमानं विज्ञेयम् । अथवा द्वितीयमनुमानं कथ्यते—रामरावणादयः कलान्तरिता, मेर्वादयो देशान्तरिता, भूतादयः स्वभावान्तरिता, परचेतोवृत्तय परमाण्वादयश्च सूक्ष्मपदार्था, धर्मिषHE TRIVERYषविशेषस्य प्रत्यक्ष

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324