Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 287
________________ १०० द्रव्यसंग्रहवृत्तिः । गाथा-५७ भावश्रुतं पुनःसर्वमस्ति । नैवं वक्तव्यम् । यदि पञ्चसमितित्रिगुप्तिप्रतिपादक द्रव्यश्रुतं जानाति तर्हि 'मा रूसह मा तूसह' इत्येकं पदं किं न जानाति । तत एव ज्ञायतेऽष्टप्रवचनमातृप्रमाणमेव भावश्रुतं, द्रव्यश्रुतं पुनः किमपि नास्ति । इदन्तु व्याख्यानमस्माभिर्न कल्पितमेव । तच्चारित्रसारादिग्रन्थेष्वपि भणितमास्ते । तथाहि–अन्तर्मुहूर्तादूर्ध्व ये केवलज्ञानमुत्पादयन्ति ते क्षोणकषायगुणस्थानवर्त्तिनो निम्रन्थसंज्ञा ऋषयो भण्यन्ते । तेषां चोत्कर्षेण चतुर्दशपूर्वादिश्रुतं भवति, जघन्येन पुनः पञ्चसमितित्रिगुप्तिमात्रमेवेति ।। अथ मतं-मोक्षार्थ ध्यानं क्रियते न चाद्य काले मोक्षोऽस्ति; ध्यानेन किं प्रयोजनम् । नैवं-अद्य कालेऽपि परम्परया भोक्षोऽस्ति । कथमिति चेत् स्वशुद्धात्मभावनावलेन संसारस्थितिं स्तोकां कृत्वा देवलोकं गच्छति, तस्मादागत्य मनुष्यभवे रत्नत्रयभावनां लब्ध्वा शीघ्रं मोक्षं गच्छतीति । येऽपि भरतसगररामपाण्डवादयो मोक्षं गतास्तेपि पूर्वभवे भेदरसत्रयभावनया संसारस्थितिं स्तोकां कृत्वा पश्चान्मोक्षं गताः । तद्भवे सर्वेषां मोक्षो भवतीति नियमो नास्ति । एवमुक्तप्रकारेण अल्पश्रुतेनापि ध्यानं भवतीति ज्ञात्वा किं कर्त्तव्यम्- "वधबन्धच्छेदादेद्वेषाद्रागाच्च परकलत्रादेः । आध्यानमपन्यानं शासति जिनशासने विशदाः ॥ संकल्पकल्पतरुसंश्रयणात्त्वदीयं चेतो निमज्जति मनोरथसागरे ऽस्मिन् । तत्रार्थतस्तव चकास्ति न किं च नापि वक्षे परं भवति कल्मषसंश्रयस्य ॥ दौर्विध्यदग्धमनसोऽन्तरूपात्तभुक्तश्चित्त यथोल्लसांत ते स्फुरितोत्तरङ्गम् । धाम्नि स्फुरद्यति तथा परमात्मसंज्ञे कौतस्कुती तव भवेद्विफला प्रसूतिः॥ कं खिद कलुसिदभूतो कामभोगे हि मुच्छिदो जीवो । ण य भुतो भोगे बन्धदि भावेण कम्माणि ॥” इत्याद्यपध्यानं त्यक्त्वा--"ममत्ति परिवज्जामि णिममत्तिमुठ्ठिदो । अालंवणं च मे अादा अवसेसाई वोसरे ॥ श्रादा क्खु मज्झ णाणे अादा मे दंसणे चरीत्ते थ। प्रादा पञ्चक्खाणे आदा में संवरे जोगे॥ एगो मे सस्सदो अप्पा णाणदसंणलक्खणो। सेसा मे वाहिरा भावा सव्बे संजोयलक्खणा ॥” इत्यादिसारपदानि गृहीत्वा च ध्यानं कर्त्तव्यमिति । - अथ मोक्षविषये पुनरपि नयविचारः कथ्यते । तथाहि मोक्षस्तावत् बन्धपूर्वकः । तथाचोक्तं "मुक्तश्चेत् प्राकभवेद्वन्धो नो बन्धो मोचनं कथम् ।

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324