Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 289
________________ १०२ द्रव्यसंग्रहवृत्तिः । गाथा – ५७ । ५८ तत्र दृष्टान्तमाह—यथा देवदत्तमुखोपाधिवशेन नानादर्पणस्थपुद्गला एव नानामुखाकारेण परिणता, न चैकं देवदत्तमुखं नानारूपेण परिणतम् । परिणमतीति चेत् —तर्हि दर्पणस्थप्रतिबिम्बं चैतन्यं प्राप्नोतीति । न च तथा । किन्तु यद्येक एव जीवो भवति, तदैकजीवस्य सुखदुःखजीवितमरणादिके प्राप्ते तस्मिन्नेव क्षणे सर्वेषां जीवितमरणादिकं प्राप्नोति न च तथा दृश्यते । अथवा ये वदन्ति यथै कोपि समुद्रः क्वापि क्षारजलः कापि मिष्टजलस्तकोऽपि जीवः सर्वदेहेषु तिष्ठतीति । तदपि न घटते । कथमितिचेत् — जलराश्यपेक्षया तत्रैकत्वं, न च जलपुद्गलापेक्षया तत्रैकत्वम् । यदि जलपुद्गलापेक्षया भवत्येकत्वं तर्हि स्तोकजले गृहीते शेषजलं सहैव किन्नायाति । ततः स्थितं षोडशवर्णका सुवर्णराशिवदनन्तज्ञानादिलक्षणं प्रत्येकं जीवराशिं प्रति न चैकजीवापेक्षयेति । अध्यात्मशब्दस्यार्थः कथ्यते । मिथ्यात्वरागादिसमस्तविकल्पजालरूपपरिहारेण स्वशुद्धात्मन्यधि यदनुष्ठानन्तदध्यात्ममिति । एवं ध्यानसामग्रीव्याख्यानोपसंहाररूपेण गाथा गता ।। ५७ ॥ अथौद्धत्यपरिहारं कथयति । व्याख्या । “सोधयंतु” शुद्धं कुर्वन्तु । के कर्त्तारः ? " मुखियाहा” मुनिनाथा मुनिप्रधानाः । किंविशिष्टाः ? “ दोससंचयचुदा” निर्दोषपरमात्मनो विलक्षणा ये रागादिदोषास्तथैव च निर्दोषपरमात्मादितत्वपरिज्ञानविषये संशयविमोहविभ्रमास्तैच्युता रहिता दोषसंचयच्युताः । पुनरपि कथम्भूता: ? " सुदपुण्णा” वर्त्तमानपरमागमाभिधानद्रव्यश्रुतेन तथैव तदाधारोत्पन्ननिर्विकारस्वसंवेदनज्ञानरूपभावश्रुतेन च पूर्णाः समग्राः श्रुतपूर्णाः । कं शोधयन्तु ? " दव्वसंगहमिणं” शुद्धबुद्धैकस्वभावपरमात्मादिद्रव्याणां सङ्ग्रहो द्रव्यसङ्ग्रहतं द्रव्यसङ्ग्रहाभिधानं प्रन्थमिमं प्रत्यक्षीभूतम् । किं विशिष्टं ? 'भणियं जं" भणितः प्रतिपादिता यो ग्रन्थः । केन कर्तृभूतेन ? " भिचंदमुणिणा” श्रोनेमिचन्द्र-सिद्धान्तिदेवाभिधानेन मुनिना सम्यग्दर्शनादिनिश्चयव्यवहाररूपपचाचारोपेताचार्येण । कथम्भूतेन "तगुसुत्तधरेण” तनुश्रुतधरेण तनुश्रुतं स्तीकं श्रुतं तद्धरतीति तनुश्रुतधरस्तेन । इति क्रियाकारकसम्बन्धः । एवं 'यानोपनंहारगाथात्रयेण, औद्धत्यपरिहारार्थं प्राकृतवृत्तेन च द्वितीयान्तराधिकारे तृतीयं स्थलं गतम् ॥ ५८ ॥

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324