________________
१०२
द्रव्यसंग्रहवृत्तिः । गाथा – ५७ । ५८
तत्र दृष्टान्तमाह—यथा देवदत्तमुखोपाधिवशेन नानादर्पणस्थपुद्गला एव नानामुखाकारेण परिणता, न चैकं देवदत्तमुखं नानारूपेण परिणतम् । परिणमतीति चेत् —तर्हि दर्पणस्थप्रतिबिम्बं चैतन्यं प्राप्नोतीति । न च तथा । किन्तु यद्येक एव जीवो भवति, तदैकजीवस्य सुखदुःखजीवितमरणादिके प्राप्ते तस्मिन्नेव क्षणे सर्वेषां जीवितमरणादिकं प्राप्नोति न च तथा दृश्यते ।
अथवा ये वदन्ति यथै कोपि समुद्रः क्वापि क्षारजलः कापि मिष्टजलस्तकोऽपि जीवः सर्वदेहेषु तिष्ठतीति । तदपि न घटते । कथमितिचेत् — जलराश्यपेक्षया तत्रैकत्वं, न च जलपुद्गलापेक्षया तत्रैकत्वम् । यदि जलपुद्गलापेक्षया भवत्येकत्वं तर्हि स्तोकजले गृहीते शेषजलं सहैव किन्नायाति । ततः स्थितं षोडशवर्णका सुवर्णराशिवदनन्तज्ञानादिलक्षणं प्रत्येकं जीवराशिं प्रति न चैकजीवापेक्षयेति । अध्यात्मशब्दस्यार्थः कथ्यते । मिथ्यात्वरागादिसमस्तविकल्पजालरूपपरिहारेण स्वशुद्धात्मन्यधि यदनुष्ठानन्तदध्यात्ममिति । एवं ध्यानसामग्रीव्याख्यानोपसंहाररूपेण गाथा गता ।। ५७ ॥
अथौद्धत्यपरिहारं कथयति ।
व्याख्या । “सोधयंतु” शुद्धं कुर्वन्तु । के कर्त्तारः ? " मुखियाहा” मुनिनाथा मुनिप्रधानाः । किंविशिष्टाः ? “ दोससंचयचुदा” निर्दोषपरमात्मनो विलक्षणा ये रागादिदोषास्तथैव च निर्दोषपरमात्मादितत्वपरिज्ञानविषये संशयविमोहविभ्रमास्तैच्युता रहिता दोषसंचयच्युताः । पुनरपि कथम्भूता: ? " सुदपुण्णा” वर्त्तमानपरमागमाभिधानद्रव्यश्रुतेन तथैव तदाधारोत्पन्ननिर्विकारस्वसंवेदनज्ञानरूपभावश्रुतेन च पूर्णाः समग्राः श्रुतपूर्णाः । कं शोधयन्तु ? " दव्वसंगहमिणं” शुद्धबुद्धैकस्वभावपरमात्मादिद्रव्याणां सङ्ग्रहो द्रव्यसङ्ग्रहतं द्रव्यसङ्ग्रहाभिधानं प्रन्थमिमं प्रत्यक्षीभूतम् । किं विशिष्टं ? 'भणियं जं" भणितः प्रतिपादिता यो ग्रन्थः । केन कर्तृभूतेन ? " भिचंदमुणिणा” श्रोनेमिचन्द्र-सिद्धान्तिदेवाभिधानेन मुनिना सम्यग्दर्शनादिनिश्चयव्यवहाररूपपचाचारोपेताचार्येण । कथम्भूतेन "तगुसुत्तधरेण” तनुश्रुतधरेण तनुश्रुतं स्तीकं श्रुतं तद्धरतीति तनुश्रुतधरस्तेन । इति क्रियाकारकसम्बन्धः । एवं 'यानोपनंहारगाथात्रयेण, औद्धत्यपरिहारार्थं प्राकृतवृत्तेन च द्वितीयान्तराधिकारे तृतीयं स्थलं गतम् ॥ ५८ ॥