________________
१००
द्रव्यसंग्रहवृत्तिः । गाथा-५७ भावश्रुतं पुनःसर्वमस्ति । नैवं वक्तव्यम् । यदि पञ्चसमितित्रिगुप्तिप्रतिपादक द्रव्यश्रुतं जानाति तर्हि 'मा रूसह मा तूसह' इत्येकं पदं किं न जानाति । तत एव ज्ञायतेऽष्टप्रवचनमातृप्रमाणमेव भावश्रुतं, द्रव्यश्रुतं पुनः किमपि नास्ति । इदन्तु व्याख्यानमस्माभिर्न कल्पितमेव । तच्चारित्रसारादिग्रन्थेष्वपि भणितमास्ते । तथाहि–अन्तर्मुहूर्तादूर्ध्व ये केवलज्ञानमुत्पादयन्ति ते क्षोणकषायगुणस्थानवर्त्तिनो निम्रन्थसंज्ञा ऋषयो भण्यन्ते । तेषां चोत्कर्षेण चतुर्दशपूर्वादिश्रुतं भवति, जघन्येन पुनः पञ्चसमितित्रिगुप्तिमात्रमेवेति ।।
अथ मतं-मोक्षार्थ ध्यानं क्रियते न चाद्य काले मोक्षोऽस्ति; ध्यानेन किं प्रयोजनम् । नैवं-अद्य कालेऽपि परम्परया भोक्षोऽस्ति । कथमिति चेत् स्वशुद्धात्मभावनावलेन संसारस्थितिं स्तोकां कृत्वा देवलोकं गच्छति, तस्मादागत्य मनुष्यभवे रत्नत्रयभावनां लब्ध्वा शीघ्रं मोक्षं गच्छतीति । येऽपि भरतसगररामपाण्डवादयो मोक्षं गतास्तेपि पूर्वभवे भेदरसत्रयभावनया संसारस्थितिं स्तोकां कृत्वा पश्चान्मोक्षं गताः । तद्भवे सर्वेषां मोक्षो भवतीति नियमो नास्ति । एवमुक्तप्रकारेण अल्पश्रुतेनापि ध्यानं भवतीति ज्ञात्वा किं कर्त्तव्यम्- "वधबन्धच्छेदादेद्वेषाद्रागाच्च परकलत्रादेः । आध्यानमपन्यानं शासति जिनशासने विशदाः ॥ संकल्पकल्पतरुसंश्रयणात्त्वदीयं चेतो निमज्जति मनोरथसागरे ऽस्मिन् । तत्रार्थतस्तव चकास्ति न किं च नापि वक्षे परं भवति कल्मषसंश्रयस्य ॥ दौर्विध्यदग्धमनसोऽन्तरूपात्तभुक्तश्चित्त यथोल्लसांत ते स्फुरितोत्तरङ्गम् । धाम्नि स्फुरद्यति तथा परमात्मसंज्ञे कौतस्कुती तव भवेद्विफला प्रसूतिः॥ कं खिद कलुसिदभूतो कामभोगे हि मुच्छिदो जीवो । ण य भुतो भोगे बन्धदि भावेण कम्माणि ॥” इत्याद्यपध्यानं त्यक्त्वा--"ममत्ति परिवज्जामि णिममत्तिमुठ्ठिदो । अालंवणं च मे अादा अवसेसाई वोसरे ॥ श्रादा क्खु मज्झ णाणे अादा मे दंसणे चरीत्ते थ। प्रादा पञ्चक्खाणे आदा में संवरे जोगे॥ एगो मे सस्सदो अप्पा णाणदसंणलक्खणो। सेसा मे वाहिरा भावा सव्बे संजोयलक्खणा ॥” इत्यादिसारपदानि गृहीत्वा च ध्यानं कर्त्तव्यमिति ।
- अथ मोक्षविषये पुनरपि नयविचारः कथ्यते । तथाहि मोक्षस्तावत् बन्धपूर्वकः । तथाचोक्तं "मुक्तश्चेत् प्राकभवेद्वन्धो नो बन्धो मोचनं कथम् ।