________________
द्रव्यसंग्रहवृत्तिः । गाथा-५७ अथवा वस्तुतस्तदेव निश्चयव्रतम् । कस्मात्-सर्वनिवृत्तित्वादिति । योऽपि घटिकाद्वयेन मोक्षं गतो भरतश्चक्री सोऽपि जिनदीक्षां गृहीत्वा विषयकषायनिवृत्तिरूपं क्षणमात्रं व्रतपरिणामं कृत्वा पश्चाच्छुद्धोपयोगत्वरूपरत्नत्रयात्मके निश्चयव्रताभिधाने वीतरागसामायिकसंज्ञे निर्विकल्पसमाधौ स्थित्वा केवलज्ञानं लब्धवानिति । परं किन्तु तस्य स्तोककालत्वाल्लोका व्रतपरिणामं न जानन्तीति । तदेव भरतस्य दीक्षाविधानं कथ्यते । हे भगवन् जिनदीक्षादानानन्तरं भरतचक्रिणः कियति काले केवलज्ञानं जातमिति श्रीवीरवर्द्धमानस्वामितीर्थकरपरमदेवसमवसरणमध्ये श्रेणिकमहाराजेन पृष्टे सति गौतमस्वामी आह । “पञ्चमुष्टिभिरुत्पाद्य त्रोट्यन् बन्धस्थितीन कचान् । लोचानन्तरमेवापद्राजत् श्रेणिक केवलम् ॥" . ___ अत्राह शिष्यः । अद्य काले ध्यानं नास्ति । मादिति चेत्–उत्तमसंहननाभावाद्दशचतुर्दशपूर्वगतश्रुतज्ञानाभानाच्च । अत्र परिहारः । शुक्लध्यानं नास्ति धर्मध्यानमस्तीति । तथाचोक्तं मोक्षप्राभृते श्रीकुन्दकुन्दाचार्यदेवैः "भरहे दुस्समकाले धम्मज्झाणं हवेइ णाणिस्स । तं अप्पसहावठि एणहुमण्णइ सो दु अण्णाणी ।। अज्जवि तिरयणसुद्धा अप्पा ज्झाऊण लहइ इंदत्तं । लोयंतियदेवत्तं तच्छचुदा णिबुदिं जंति ॥” तथैव तत्त्वानुशासनग्रन्थे चोक्तं "अत्रेदानी निषेधन्ति शुक्लध्यानं जिनोत्तमाः । धर्मध्यानं पुनः प्राहुः श्रेणीभ्यां प्राग्विवर्त्तिनाम् ॥" यथोक्तमुत्तमसंहननाभावात्तदुत्सर्गवचनम् । अपवादव्याख्यानेन पुनरुपशमक्षपकश्रेण्योः शुक्लध्यानं भवति, तच्चोत्तमसंहननेनैव । अपूर्वगुणस्थानादधस्तनेषु गुणस्थानेषु धर्मध्यानं, तच्चादिमत्रिकोत्तमसंहननाभावेऽप्यन्तिमत्रिकसंहननेनापि भवति । तदप्युक्तं तत्रैव तत्त्वानुशासने “यत्पुनर्वअकायस्य ध्यानमित्यागमे वचः। श्रेण्योानं प्रतीत्योक्तं तन्नोऽधस्तानिषेधकम् ॥” यथोक्तं दशचतुर्दशपूर्वगतश्रुतज्ञानेन ध्यानं भवति तदप्युत्सर्गवचनम् । अपवादव्याख्यानेन पुनः पञ्चसमितित्रिगुप्तिप्रतिपादकसारभूतश्रुतेनापि ध्यानं भवति केवलज्ञानश्च । यद्येवमपवादव्याख्यानं नास्ति तर्हि "तुसमासं घोसण्ती सिवभूदी केवली जादो” इत्यादिगन्धर्वाराधनादिभणित व्याख्यानं कथं घटते ।।
मथ, मतं-पञ्चसमितित्रिगुप्तिप्रतिपादक द्रव्यश्रुतिमिति जानाति । इदं