________________
द्रव्यसंग्रहवृत्तिः । गाथा-५७ लब्धिस्तल्लब्धिस्तदर्थमिति । तथाहि-अनशनावमौदर्यवृत्तिपरिसंख्यानरस. परित्यागविविक्तशय्यासनकायक्लेशभेदेन बाह्य षडविधं, तथैव प्रायश्चित्तविनय. वैय्यावृत्यस्वाध्यायव्युत्सर्गध्यानभेदेनाभ्यन्तरमपि षडविधं चेति द्वादशविधं तपः । तेनैव साध्य शुद्धात्मस्वरूपे प्रतपनं विजयनं निश्चयतपश्च । तथैवाचाराराधनादिद्रव्यश्रुतं, तदाधारेणोत्पन्नं निर्विकारस्वसंवेदनज्ञानरूपं भावश्रुतं च । तथैव च हिंसानृतस्तेयाब्रह्मपरिग्रहाणं द्रव्यभावरूपाणां परिहरणं व्रतपञ्चकं चेति । एवमुक्तलक्षणतप:श्रुतत्रतसहितो ध्याता पुरुषो भवति । इयमेव ध्यानसामग्री चेति । तथाचोक्तं- "वैराग्यं तत्त्वविज्ञानं नैर्ग्रन्थ्यं समचित्तता। परीषहजयश्चेति पञ्चैते ध्यानहेतवः ॥”
भगवन्, ध्यानं तावन्मोनमार्गभूतम् । मोक्षार्थिना पुरुषेण पुण्यबन्धकारणत्वावतानि त्याज्यानि भवन्ति, भवद्भिः पुनानसामग्रीकारणानि तप:श्रु - तव्रतानि व्याख्यातानि, तत्कथं घटत इति । तत्रोत्तरं दीयते-व्रतान्येव केवलानि त्याज्यान्येव न किन्तु पापबन्धकारणानि हिंसादिविकल्परूपाणि यान्यत्रतानि तान्यपि त्याज्यानि । तथाचोक्तं पूज्यपादस्वामिभिः-"अपुण्यमव्रतैः पुण्यं व्रतैर्मोक्षस्तयोर्व्ययः । अव्रतानीव मोक्षार्थी व्रतान्यपि ततस्त्यजेत् ।।" किंवव्रतानि पूर्व परित्यज्य ततश्च व्रतेषु तन्निष्ठो भूत्वा निर्विकल्पसमाधिरूपं परमात्मपदं प्राप्य पश्चादेकदेशत्रतान्यपि त्यजति । तदप्युक्तं तैरेव-"अव्रतानि परित्यज्य व्रतेषु परिनिष्ठितः । त्यजेत्तान्यपि संप्राप्य परमं पदमात्मनः ॥" ___ अयं तु विशेष:-व्यवहाररूपाणि यानि प्रसिद्धान्येकदेशव्रतानि तानि त्यक्तानि । यानि पुनः सर्वशुभाशुभनिवृत्तिरूपाणि निश्चयव्रतानि तानि त्रिगुप्तिलक्षणस्वशुद्धात्मसंवित्तिरूपनिर्विकल्पध्याने स्वीकृतान्येव न च त्यक्तानि । प्रसिद्धमहाव्रतानि कथमेकदेशरूपाणि जातानि । इति चेत्तदुच्यते-जीवघातानिवृत्तौ सत्यामपि जीवरक्षणे प्रवृत्तिरस्ति । तथैवासत्यवचनपरिहारेऽपि सत्यवचनप्रवृत्तिरस्ति । तथैवं चादत्तादानपरिहारेऽपि दत्तादाने प्रवृत्तिरस्तीत्याद्येकदेशप्रवृत्त्यपेक्षया देशत्रतानि । तेषामेकदेशव्रतानां त्रिगुमिलक्षणनिर्विकल्पसमाधिकाले त्यागः । न च समस्तशुभाशुभनिवृत्तिलक्षणस्य निश्चयव्रतस्येति । त्यागः कोऽर्थः । यथैव हिंसादिरूपावतेषु निवृत्तिस्तथैकदेशवतेष्वपि । कस्मादिति चेल्-त्रिगुप्तावस्थायां प्रवृत्तिनिवृत्तिरूपविकल्पस्य स्वयमेवावकाशो नास्ति ।