________________
द्रव्यसंग्रहवृत्तिः । गाथा – ५६ । ५७
२७
परमबुद्धस्वरूपं, तदेव परमनिजखरूपं, तदेव परमस्वात्मोपलब्धिलक्षणं सिद्धखरूपं, तदेव निरञ्जनस्वरूपं, तदेव निर्मलस्वरूपं, तदेव स्वसंवेदनज्ञानं, तदेव परमतत्त्वज्ञानं, तदेव शुद्धात्मदर्शनं, तदेव परमावस्थास्वरूपं, तदेव परमात्मनः दर्शनं, तदेव परमतत्त्वज्ञानं, तदेव शुद्धात्मदर्शनं तदेव ध्येयभूतशुद्धपारिणामिकभावरूपं तदेव ध्यानभावनास्वरूपं तदेव शुद्धचारित्रं, तदेवान्तस्तत्त्वं, तदेव परमतत्त्व, तदेव शुद्धात्मद्रव्यं, तदेव परमज्योतिः, सैव शुद्धात्मानुभूतिः, सैवात्मप्रतीतिः, सैवात्मसंवित्तिः, सैव स्वरूपोपलब्धि:, स एव नित्योपलब्धिः, स एव परमसमाधिः, स एव परमानन्दः, स एव नित्यानन्दः, स एव संहजानन्दः, स एव सदानन्दः, स एव शुद्धात्मपदार्थध्ययनरूपः, स एव परमस्वाध्यायः, स एव निश्चयमोक्षोपायः स एव चैकाग्रचिन्तानिरोधः, स एव परमबोधः, स एव शुद्धोपयोगः, स एव परमयोगः, स एव भूतार्थः, स एव परमार्थः, स एव निश्चयपश्चाचारः, स एव समयसार:, स एवाध्यात्मसार:, तदेव समतादिनिश्चयषडावश्यकस्वरूपं, तदेवाभेदरत्नत्रयस्वरूपं, तदेव वीतरागसामायिकं, तदेव परमशरणोत्तममङ्गलं, तदेव केवलज्ञानोत्पत्तिकारणं, तदेव सकलकर्मक्षयकारणं, सैव निश्चयचतुर्विधाराधना, सैव परमात्मभावना, सैव शुद्धात्मभावनोत्पन्नसुखानुभूतिरूपपरमकला, सैव दिव्यकला, तदेव परमाद्वैत, तदेव परमामृतपरमधर्मध्यानं, तदेव शुक्लध्यानं, तदेव रागादिविकल्पशून्यध्यानं, तदेव निष्कलध्यानं, तदेव परमस्वास्थ्यं, तदेव परमवीतरागत्वं, तदेव परमसाम्यं, तदेव परमैकत्वं तदेव परमभेदज्ञानं, स एव परमसमरसीभावः, इत्यादिसमस्तरागादिविकल्पोपाधिरहितपर माल्हादैकसुखलक्षणध्यानरूपस्य निश्चयमोक्षमार्गस्य वाचकान्यन्यान्यपि पर्यायनामानि विज्ञेयानि भवन्ति परमात्मतत्वविद्भिरिति ॥ ५६ ॥
श्रतः परं यद्यपि पूर्व बहुधा भणितं ध्यातृपुरुषलक्षणं ध्यानसामग्रीच तथापि चूलिकोपसंहाररूपेण पुनरप्याख्याति ।
व्याख्या | 'तवसुदवदवं चेदा ज्झाणरहधुरंधरो हवे जम्हा' तपश्रुतव्रतवा - नात्मा चेतयिता ध्यानरंथस्य धुरन्धरो समर्थो भवति 'जम्हा' यस्मात् 'तम्हा तत्तिरिदा तल्लो सदा होह' तस्मात् कारणात् तपश्रुततानां संबन्धेन यत्रितयं तत् त्रिरता सर्वकाले भवत हे भव्याः ! किमर्थ ? तस्य ध्यानस्य