Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 286
________________ द्रव्यसंग्रहवृत्तिः । गाथा-५७ अथवा वस्तुतस्तदेव निश्चयव्रतम् । कस्मात्-सर्वनिवृत्तित्वादिति । योऽपि घटिकाद्वयेन मोक्षं गतो भरतश्चक्री सोऽपि जिनदीक्षां गृहीत्वा विषयकषायनिवृत्तिरूपं क्षणमात्रं व्रतपरिणामं कृत्वा पश्चाच्छुद्धोपयोगत्वरूपरत्नत्रयात्मके निश्चयव्रताभिधाने वीतरागसामायिकसंज्ञे निर्विकल्पसमाधौ स्थित्वा केवलज्ञानं लब्धवानिति । परं किन्तु तस्य स्तोककालत्वाल्लोका व्रतपरिणामं न जानन्तीति । तदेव भरतस्य दीक्षाविधानं कथ्यते । हे भगवन् जिनदीक्षादानानन्तरं भरतचक्रिणः कियति काले केवलज्ञानं जातमिति श्रीवीरवर्द्धमानस्वामितीर्थकरपरमदेवसमवसरणमध्ये श्रेणिकमहाराजेन पृष्टे सति गौतमस्वामी आह । “पञ्चमुष्टिभिरुत्पाद्य त्रोट्यन् बन्धस्थितीन कचान् । लोचानन्तरमेवापद्राजत् श्रेणिक केवलम् ॥" . ___ अत्राह शिष्यः । अद्य काले ध्यानं नास्ति । मादिति चेत्–उत्तमसंहननाभावाद्दशचतुर्दशपूर्वगतश्रुतज्ञानाभानाच्च । अत्र परिहारः । शुक्लध्यानं नास्ति धर्मध्यानमस्तीति । तथाचोक्तं मोक्षप्राभृते श्रीकुन्दकुन्दाचार्यदेवैः "भरहे दुस्समकाले धम्मज्झाणं हवेइ णाणिस्स । तं अप्पसहावठि एणहुमण्णइ सो दु अण्णाणी ।। अज्जवि तिरयणसुद्धा अप्पा ज्झाऊण लहइ इंदत्तं । लोयंतियदेवत्तं तच्छचुदा णिबुदिं जंति ॥” तथैव तत्त्वानुशासनग्रन्थे चोक्तं "अत्रेदानी निषेधन्ति शुक्लध्यानं जिनोत्तमाः । धर्मध्यानं पुनः प्राहुः श्रेणीभ्यां प्राग्विवर्त्तिनाम् ॥" यथोक्तमुत्तमसंहननाभावात्तदुत्सर्गवचनम् । अपवादव्याख्यानेन पुनरुपशमक्षपकश्रेण्योः शुक्लध्यानं भवति, तच्चोत्तमसंहननेनैव । अपूर्वगुणस्थानादधस्तनेषु गुणस्थानेषु धर्मध्यानं, तच्चादिमत्रिकोत्तमसंहननाभावेऽप्यन्तिमत्रिकसंहननेनापि भवति । तदप्युक्तं तत्रैव तत्त्वानुशासने “यत्पुनर्वअकायस्य ध्यानमित्यागमे वचः। श्रेण्योानं प्रतीत्योक्तं तन्नोऽधस्तानिषेधकम् ॥” यथोक्तं दशचतुर्दशपूर्वगतश्रुतज्ञानेन ध्यानं भवति तदप्युत्सर्गवचनम् । अपवादव्याख्यानेन पुनः पञ्चसमितित्रिगुप्तिप्रतिपादकसारभूतश्रुतेनापि ध्यानं भवति केवलज्ञानश्च । यद्येवमपवादव्याख्यानं नास्ति तर्हि "तुसमासं घोसण्ती सिवभूदी केवली जादो” इत्यादिगन्धर्वाराधनादिभणित व्याख्यानं कथं घटते ।। मथ, मतं-पञ्चसमितित्रिगुप्तिप्रतिपादक द्रव्यश्रुतिमिति जानाति । इदं

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324