Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 280
________________ द्रव्यसंग्रहवृत्तिः । गाथा - ५१ ८३ व्याख्या । ‘ण्ट्ठट्ठकम्मदेहो’ शुभाशुभमनोवचनकायक्रियारूपस्य द्वैतशब्दाभिधेयकर्मकाण्डस्य निर्मूलनसमर्थेन स्वशुद्धात्मतत्वभावनोत्पन्नरागादिविकल्पोपाधिरहितपरमाल्हादैकलक्षणसुन्दरमनोहरानन्दयंदिनिः क्रियाद्वैतशब्दवाच्येन परमज्ञानकाण्डेन विनाशितज्ञानावरणाद्यष्टकमैदारिकादिपञ्चदेहत्वात् नष्टाष्टकर्मदेहः । 'लोयालोयस्स जाओ दट्ठा' पूर्वोक्तज्ञानकाण्डभावनाफलभूवेन सकलविमल केवलज्ञानदर्शनद्वयेन लोकालोकगतत्रिकालवर्त्तिसमस्तवस्तुसंबन्धिविशेषसामान्यस्वभावनामेकसमयज्ञायकदर्शकत्वात् लोकालोकस्य ज्ञाता दृष्टा भवति । 'पुरिसायारो' निश्चयनयेनातीन्द्रियामूर्त्त परमचिदुच्छलननिर्भरशुद्धस्वभावेन निराकारोऽपि व्यवहारेण भूतपूर्वनयेन किञ्चिदूनचरमशरीराकारेण गतसिक्थमूषागर्भाकारवच्छायाप्रतिमावद्वा पुरुषाकारः । 'अप्पा' इत्युक्तलक्षण आत्मा किं भण्यते ' सिद्धो' अञ्जनसिद्धपादुकासिद्धगुटिकासिद्धखड्गसिद्धमायासिद्धादि लौकिकसिद्धविलक्षणः केवलज्ञानाद्यनन्वगुणव्यक्तिलक्षणः सिद्धो भण्यते । 'काएह लोयसिहरत्थो' तमित्थंभूतं सिद्धपरमेष्ठिनं लोकशिखरस्थं दृष्टश्रुतानुभूतपञ्चेन्द्रियभोगप्रभृतिसमस्तमनोरथरूपनानाविकल्प-जालत्यागेन त्रिगुनिलाम्पातीत ध्याने स्थित्वा ध्यायत हे भव्या यूयमिति ॥ ५१ ॥ एवं निष्कल सिद्धपरमेष्ठियाख्यानेन गाथा गता ॥ अथ निरुपाधिशुद्धात्मभावनानुभूत्यविनाभूतनिश्चयपञ्चाचारलक्षणस्य निश्चयध्यानस्य परम्परया कारणभूतं निश्चयव्यवहारपञ्चाचारपरिणताचार्यभक्तिरूपं ‘णमो आयरियाणं' इति पदोच्चारणलक्षणं यत्पदस्थध्यानं तस्य ध्येयभूतमाचार्यपरमेष्ठिनं कथयति । 'दंसणणाणपहाणे वीरियचारित्तवरतवायारे' सम्यग्दर्शनज्ञानप्रधाने वीर्यचारित्रवरतपश्चरणाचारेऽधिकरणभूते 'अप्पं परं च जुजइ' श्रात्मानं परं शिष्यजनं च योऽसौ योजयति संबन्धं करोति 'सो आयरिश्र मुणी भो' स उक्त लक्षण प्राचार्यो मुनिस्तपोधनो ध्येयो भवति । तथा हि-भूतार्थनयविषयभूतः शुद्धसमयसारशब्दवाच्यो भावकर्मद्रव्यकर्मनाकर्मादिसमस्तपरद्रव्येभ्यो भिन्नः परमचैतन्यविलासलक्षणः स्वशुद्धात्मैवेोपादेय इति रुचिरूपसम्यग्दर्शनं, तत्राचरणं परिणमनं निश्चयदर्शनाचारः ॥ तस्यैव शुद्धात्मनो निरुपाधिस्वसंवेदनलक्षणभेदज्ञानेन मिथ्यात्वरागादिपरभावेभ्यः पृथक्परिच्छेदनं सम्यक्ज्ञानं,

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324