Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 282
________________ द्रव्यसंग्रहवृत्तिः । गाथा-५४ । ५५ १५ 'जो हु साधयदि' यः कर्ता हु स्फुटं साधयति । किं 'चारित्त' चारित्रं कथम्भूतं 'दंसणणाणसमग्ग” वीतरागसम्यग्दर्शनज्ञानाभ्यां समग्र परिपूर्णम् । पुनरपि कथम्भूतं 'मग्ग मोक्खस्स' मार्गभूतं कस्य मोक्षस्य। पुनश्च किं रूपं 'णिच्चसुद्ध' नित्यं सर्वकाल शुद्धं रागादिरहितम् । ‘णमो तस्स' एवं गुणविशिष्टो यस्तस्मै साधवे नमो नमस्कारोस्त्विति। तथाहि-"उद्योतनमुद्योगो निर्वहणं साधनं च निस्तरणम् । हगवगभचरणतपसामाख्याताराधना सद्भिः ॥" इत्यार्याकथितबहिरङ्गचतुर्विधाराधनाबलेन, तथैव “सम्मत्त सण्णाणं सच्चारित्तं हि सत्तवो चेव । चउरो चिट्ठहि आदे तम्हा आदा हु मे सरणं ॥” इति गाथाकथिताभ्यन्तरनिश्चयचतुर्विधाराधनाबलेन च बाह्याभ्यन्तरमोक्षमार्गद्वितीयनामाभिधेयेन कृत्वा यः कर्चा वीतरागचारित्राविनाभूतं स्वशुद्धात्मानं साधयति भावयति स साधुर्भवति । तस्यैव सहजशुद्धसदानन्दैकानुभूतिलक्षणे भावनमस्कारस्तथा 'णमो लोए सब्बसाहूणं' द्रव्यनमस्कारश्च भवत्विति ॥५४॥ एवमुक्तप्रकारेण गाथापञ्चकेन मध्यमप्रतिपत्त्या पञ्चपरमेष्टिस्वरूपं ज्ञातव्यम् । अथवा निश्चयेन "अरिहासिद्धायरियाउवझयासाहुपंचपरमेट्टो : ते वि हु चिट्ठहि ादे तम्हा आदा हु मे सरणं ॥” इति गाथाकथितक्रमेण संक्षेपेन, तथैव विस्तरेण पञ्चपरमेष्ठिप्रन्थकथितक्रमण, अतिविस्तारेण तु सिद्धचक्रादिदेवार्चनाविधिरूपमन्त्रवादसंबन्धिपञ्चनमस्कारग्रन्थे चेति । एवंगाथापञ्चकेन द्वितीयस्थलं गतम् । . अथ तदेव ध्यानं विकल्पितनिश्चयेनाविकल्पितनिश्चयेन प्रकारान्तरेणोपसंहाररूपेण पुनरप्याह । तत्र प्रथमपादे ध्येयलक्षणं, द्वितीयपादे ध्यातृलक्षणं, तृतीयपादे ध्यानलक्षणं, चतुर्थपादेन नयविभाग कथयामीत्यभिप्रायं मनसि धृत्वा भगवान् सूत्रमिदं प्रतिपादयति ।। ____ व्याख्या । 'तदा' तस्मिन् काले प्राब्रुवन्ति 'तं तस्स णिञ्चयं झाणं' तत्तस्य निश्चयध्यानमिति । यदा किं 'णिरीहवित्ती हवे जदा साहू' निरीहवृत्तिनिस्पृहवृत्तिर्यदा साधुर्भवति । किं कुर्वन् 'जं किंचिवि चिंतंतो' यत् किमपि ध्येयवस्तुरूपेण वस्तु चिन्तयन्निति । किं कृत्वा पूर्व 'लभृणय एयत्त' तस्मिन् ध्येये लब्ध्वा किं ? एकत्वं एकाग्रचिन्तानिरोधनमिति। अथ विस्तारः यत् किञ्चिद् ध्येयमित्यनेन किमुक्तं भवति ? प्राथमिकापेक्षया सविकल्पावस्थायां १३

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324