Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 277
________________ द्रव्यसंग्रहवृत्तिः । गाथा - ५० एकाग्रचिन्तनं ध्यानं फलं संवरनिर्जरौ ॥” इति श्लोककथितलक्षणानां ध्यातृ-. ध्येयध्यानफलानां संक्षेपव्याख्यानरूपेण गाथात्रयेण द्वितीयान्तराधिकारे प्रथमं स्थलं गतम् । ६० अतः परं रागादिविकल्पोपाधिरहितनिजपरमात्मपदार्थभावनोत्पन्नसदा-. नन्दैकलक्षणसुखामृतरसास्वाद तृप्तिरूपस्य निश्चयध्यानस्य परम्परया कारणभूतं यच्छुभोपयोगलक्षणं व्यवहारध्यानं तद्ध्येयभूतानां पंचपरमेष्ठीनां मध्ये तावदहत्स्वरूपं कथयामीत्येका पातनिका । द्वितीया तु पूर्वसूत्रोदितसर्वपदनामपदादिपदानां वाचकभूतानां वाच्या ये पञ्चपरमेष्ठिनस्तद्व्याख्याने क्रियमाणे प्रथम - तस्तावज्जिनस्वम्पं निरूपयामि । अथवा तृतीया पातनिका पदस्थपिण्डस्थरूपस्थध्यानत्रयस्य ध्येयभूतमर्हत्सर्वज्ञस्वरूपं दर्शयामीति पातनिकायं मनसि धृत्वा भगवान् सूत्रमिदं प्रतिपादयति । व्याख्या । “णटुचदुघाइकम्मो " निश्चयरत्नत्रयात्मकशुद्धोपयोगध्यानेन पूर्व घातिकर्ममुख्यभूतमोहनीयस्य विनाशनात्तदनन्तरं ज्ञानदर्शनावरणान्तरायसंज्ञयुगपद्भ्रातित्रयविनाशकत्वाच्च प्रणष्टचतुर्घातिकर्मा । “दंसणसुहणाणवीरियमई” तेनैव घातिकर्माभावेन लब्धानन्तचतुष्टयत्वात् सहजशुद्धाविनश्वर - दर्शनज्ञानसुखवीर्यमयः । “सुहदेहत्यो” निश्चयेनाशरीरोऽपि व्यवहारेण सप्तधातुरहितदिवाकरसहस्रभासुरपरमैौदारिकशरीरत्वात् शुभदेहस्थः । “सुद्धो” " क्षुधा तृषा भयं द्वेषो रागो मोहश्च चिन्तनम् । जरा रुजा च मृत्युश्च खेदः स्वेदा मदोऽरतिः ।१। विस्मयो जननं निद्रा विषादोऽष्टादश स्मृताः । एतैदेषिविनिर्मुक्तः सोऽयमाप्तो निरञ्जनः ||२||” इति श्लोकद्वयकथिताष्टादशदोषरहितत्वात् शुद्धः । “अप्पा” एवं गुणविशिष्ट आत्मा । “अरिहो" प्ररिशब्दवाच्यमोहनीयस्य, रजःशब्दवाच्यज्ञानदर्शनावरणद्र्यस्य, रहस्यशब्दवाच्यान्तरायस्य च हननाद्विनाशात्सकाशात् इन्द्रादिविनिर्मितां गर्भावतरणजन्माभिषेकनि:क्रमणकेवलज्ञानोत्पत्तिनिर्वाणाभिधानपञ्चमहाकल्याणरूपां पूजामर्हति योग्यो भवति तेन कारणेन अर्हन् भण्यन्ते । “विचिंतज्जो" इत्युक्तविशेपणैर्विशिष्टमाप्तागमप्रभृतिप्रन्थकथितवीतरागसर्वज्ञाद्यष्टोत्तरसहस्रनामानमर्हतं जिनभट्टारकं पदस्थपिंडस्थरूपस्थध्याने स्थित्वा विशेषेण चिन्तयत ध्यायत हे भव्या यूयमिति ।

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324