________________
द्रव्यसंग्रहवृत्तिः । गाथा - ५०
एकाग्रचिन्तनं ध्यानं फलं संवरनिर्जरौ ॥” इति श्लोककथितलक्षणानां ध्यातृ-. ध्येयध्यानफलानां संक्षेपव्याख्यानरूपेण गाथात्रयेण द्वितीयान्तराधिकारे प्रथमं स्थलं गतम् ।
६०
अतः परं रागादिविकल्पोपाधिरहितनिजपरमात्मपदार्थभावनोत्पन्नसदा-. नन्दैकलक्षणसुखामृतरसास्वाद तृप्तिरूपस्य निश्चयध्यानस्य परम्परया कारणभूतं यच्छुभोपयोगलक्षणं व्यवहारध्यानं तद्ध्येयभूतानां पंचपरमेष्ठीनां मध्ये तावदहत्स्वरूपं कथयामीत्येका पातनिका । द्वितीया तु पूर्वसूत्रोदितसर्वपदनामपदादिपदानां वाचकभूतानां वाच्या ये पञ्चपरमेष्ठिनस्तद्व्याख्याने क्रियमाणे प्रथम - तस्तावज्जिनस्वम्पं निरूपयामि । अथवा तृतीया पातनिका पदस्थपिण्डस्थरूपस्थध्यानत्रयस्य ध्येयभूतमर्हत्सर्वज्ञस्वरूपं दर्शयामीति पातनिकायं मनसि धृत्वा भगवान् सूत्रमिदं प्रतिपादयति ।
व्याख्या । “णटुचदुघाइकम्मो " निश्चयरत्नत्रयात्मकशुद्धोपयोगध्यानेन पूर्व घातिकर्ममुख्यभूतमोहनीयस्य विनाशनात्तदनन्तरं ज्ञानदर्शनावरणान्तरायसंज्ञयुगपद्भ्रातित्रयविनाशकत्वाच्च प्रणष्टचतुर्घातिकर्मा । “दंसणसुहणाणवीरियमई” तेनैव घातिकर्माभावेन लब्धानन्तचतुष्टयत्वात् सहजशुद्धाविनश्वर - दर्शनज्ञानसुखवीर्यमयः । “सुहदेहत्यो” निश्चयेनाशरीरोऽपि व्यवहारेण सप्तधातुरहितदिवाकरसहस्रभासुरपरमैौदारिकशरीरत्वात् शुभदेहस्थः । “सुद्धो” " क्षुधा तृषा भयं द्वेषो रागो मोहश्च चिन्तनम् । जरा रुजा च मृत्युश्च खेदः स्वेदा मदोऽरतिः ।१। विस्मयो जननं निद्रा विषादोऽष्टादश स्मृताः । एतैदेषिविनिर्मुक्तः सोऽयमाप्तो निरञ्जनः ||२||” इति श्लोकद्वयकथिताष्टादशदोषरहितत्वात् शुद्धः । “अप्पा” एवं गुणविशिष्ट आत्मा । “अरिहो" प्ररिशब्दवाच्यमोहनीयस्य, रजःशब्दवाच्यज्ञानदर्शनावरणद्र्यस्य, रहस्यशब्दवाच्यान्तरायस्य च हननाद्विनाशात्सकाशात् इन्द्रादिविनिर्मितां गर्भावतरणजन्माभिषेकनि:क्रमणकेवलज्ञानोत्पत्तिनिर्वाणाभिधानपञ्चमहाकल्याणरूपां पूजामर्हति योग्यो भवति तेन कारणेन अर्हन् भण्यन्ते । “विचिंतज्जो" इत्युक्तविशेपणैर्विशिष्टमाप्तागमप्रभृतिप्रन्थकथितवीतरागसर्वज्ञाद्यष्टोत्तरसहस्रनामानमर्हतं जिनभट्टारकं पदस्थपिंडस्थरूपस्थध्याने स्थित्वा विशेषेण चिन्तयत ध्यायत हे भव्या यूयमिति ।