________________
द्रव्यसंग्रहवृत्तिः । गाथा – ४८ । ४६ ।
जनिता भण्यन्ते । तथैवाशुद्धनिश्चयेन जीवजनिता इति । स चाशुद्धनिश्चयः शुद्धनिश्चयापेक्षया व्यवहार एव । अथ मतं - साक्षाच्छुद्धनिश्चयनयेन कस्यैत इति पृच्छामो वयम् । तत्रोत्तरं — साताच्छुद्धनिश्चयेन स्त्रीपुरुषसंयोगरहितपुत्रस्येव, सुधाहरिदासंयोगरहितरङ्गविशेषस्येव तेषामुत्पत्तिरेव नास्ति कथमुत्तरं प्रयच्छाम इति ||४८|| एवं ध्यातृव्याख्यानमुख्यत्वेन तद्ध्यानेन विचित्रध्यानकथनेन च सूत्रं गतम् ॥
अत ऊद्धर्व पदस्थं ध्यानं मन्त्रवाक्यस्थं यदुक्तं तस्य विवरणं कथयति । व्याख्या । — “ पणतीस " " णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्बसाहूणं" एतानि पञ्चत्रिंशदक्षराणि सर्वपादानि भण्यन्ते । "सोल” "अरिहंत सिद्ध आचार्य उवज्झाय साहू' एतानि षोडशाक्षराणि नामपदानि भण्यन्ते । "छ" अरिहन्तसिद्ध एतानि षडक्षराणि अर्हत्सिद्धयोर्नामपदे द्वे भण्येते । "पण" 'अ सि आ उ सा' एतानि पञ्चाक्षराणि आदिपदानि भण्यन्ते । “चदु” "अरिहंत" इदमत्तरचतुष्टयमर्हतो नामपदम् । “दुगं" सिद्ध इत्यचरद्वयं सिद्धस्य नामपदम् । “एगं च" 'अ' इत्येकाक्षरर्हमत आदिपदम् । अथवा '' एकाक्षरं पञ्चपरमेष्ठिनामादिपदम् । तत्कथमिति चेत् "अरिहंता असरीरा आयरिया तह उवज्झया मु । पढमक्खरनिप्पण्णो उकारो पंच परमेट्ठी । इति गाथाकथित - प्रथमाक्षराणां ‘समानः सवर्णे दीर्घीभवति' 'परच लोपम्' 'उवर्णे ऊ' इति स्वरसन्धिविधानेन - शब्दो निष्पद्यते । कस्मादिति - "जवह ज्झाएह " एतेषां पदानां सर्वमन्त्रवादपदेषु मध्ये सारभूतानां इहलोकपरलोकष्टफलप्रदानसमर्थ ज्ञात्वा पश्चादनन्तज्ञानादिगुणस्मरणरूपेण वचनोच्चारणेन च जापं कुरुत । तथैव शुभोपयोगरूपत्रिगुप्रावस्थायां मौनेन ध्यायत । पुनरपि कथम्भूतांम् “परमेट्ठिवाचयाणं” ‘अरिहंत' इति पदवाचकमनन्तज्ञानादिगुणयुक्तोऽर्हद्वाच्यो)भिधेय इत्यादिरूपेण पञ्चपरमेट्ठिवाचकानां । 'अण्णं च गुरूवएसेण”अन्यदपि द्वादशसहस्रप्रमितपञ्चनमस्कारग्रन्थकथितक्रमेण लघुसिद्धचक्रं, बृहत्सिद्धचक्रमित्यादिदेवार्चनविधानं भेदाभेदरत्नत्रयाराधकगुरुप्रसादेन ज्ञात्वा ध्यातव्यम् । इति पदस्थध्यानस्वरूपं व्याख्यातम् ॥४-८॥ |
एवमनेन प्रकारेण "गुप्तेन्द्रियमना ध्यात ध्येयं वस्तु यथास्थितम् ।
८६