Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 276
________________ द्रव्यसंग्रहवृत्तिः । गाथा – ४८ । ४६ । जनिता भण्यन्ते । तथैवाशुद्धनिश्चयेन जीवजनिता इति । स चाशुद्धनिश्चयः शुद्धनिश्चयापेक्षया व्यवहार एव । अथ मतं - साक्षाच्छुद्धनिश्चयनयेन कस्यैत इति पृच्छामो वयम् । तत्रोत्तरं — साताच्छुद्धनिश्चयेन स्त्रीपुरुषसंयोगरहितपुत्रस्येव, सुधाहरिदासंयोगरहितरङ्गविशेषस्येव तेषामुत्पत्तिरेव नास्ति कथमुत्तरं प्रयच्छाम इति ||४८|| एवं ध्यातृव्याख्यानमुख्यत्वेन तद्ध्यानेन विचित्रध्यानकथनेन च सूत्रं गतम् ॥ अत ऊद्धर्व पदस्थं ध्यानं मन्त्रवाक्यस्थं यदुक्तं तस्य विवरणं कथयति । व्याख्या । — “ पणतीस " " णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, णमो लोए सव्बसाहूणं" एतानि पञ्चत्रिंशदक्षराणि सर्वपादानि भण्यन्ते । "सोल” "अरिहंत सिद्ध आचार्य उवज्झाय साहू' एतानि षोडशाक्षराणि नामपदानि भण्यन्ते । "छ" अरिहन्तसिद्ध एतानि षडक्षराणि अर्हत्सिद्धयोर्नामपदे द्वे भण्येते । "पण" 'अ सि आ उ सा' एतानि पञ्चाक्षराणि आदिपदानि भण्यन्ते । “चदु” "अरिहंत" इदमत्तरचतुष्टयमर्हतो नामपदम् । “दुगं" सिद्ध इत्यचरद्वयं सिद्धस्य नामपदम् । “एगं च" 'अ' इत्येकाक्षरर्हमत आदिपदम् । अथवा '' एकाक्षरं पञ्चपरमेष्ठिनामादिपदम् । तत्कथमिति चेत् "अरिहंता असरीरा आयरिया तह उवज्झया मु । पढमक्खरनिप्पण्णो उकारो पंच परमेट्ठी । इति गाथाकथित - प्रथमाक्षराणां ‘समानः सवर्णे दीर्घीभवति' 'परच लोपम्' 'उवर्णे ऊ' इति स्वरसन्धिविधानेन - शब्दो निष्पद्यते । कस्मादिति - "जवह ज्झाएह " एतेषां पदानां सर्वमन्त्रवादपदेषु मध्ये सारभूतानां इहलोकपरलोकष्टफलप्रदानसमर्थ ज्ञात्वा पश्चादनन्तज्ञानादिगुणस्मरणरूपेण वचनोच्चारणेन च जापं कुरुत । तथैव शुभोपयोगरूपत्रिगुप्रावस्थायां मौनेन ध्यायत । पुनरपि कथम्भूतांम् “परमेट्ठिवाचयाणं” ‘अरिहंत' इति पदवाचकमनन्तज्ञानादिगुणयुक्तोऽर्हद्वाच्यो)भिधेय इत्यादिरूपेण पञ्चपरमेट्ठिवाचकानां । 'अण्णं च गुरूवएसेण”अन्यदपि द्वादशसहस्रप्रमितपञ्चनमस्कारग्रन्थकथितक्रमेण लघुसिद्धचक्रं, बृहत्सिद्धचक्रमित्यादिदेवार्चनविधानं भेदाभेदरत्नत्रयाराधकगुरुप्रसादेन ज्ञात्वा ध्यातव्यम् । इति पदस्थध्यानस्वरूपं व्याख्यातम् ॥४-८॥ | एवमनेन प्रकारेण "गुप्तेन्द्रियमना ध्यात ध्येयं वस्तु यथास्थितम् । ८६

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324