Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 271
________________ ४ द्रव्यसंग्रहवृत्तिः । गाथा-४४ अथ सम्यग्दर्शनज्ञानपूर्वकं रत्नत्रयात्मकमोक्षमार्गतृतीयावयवभूतं स्वशुद्धात्मानुभूतिरूपशुद्धोपयोगलक्षणवीतरागचारित्रस्य पारम्पर्येण साधकं सरागचारित्रं प्रतिपादयति। .. व्याख्या। अस्यैव सरागचारित्रस्यैकदेशावयवभूतं देशचारित्रं तावत्कथ्यते । तद्यथा-मिथ्यात्वादिसप्तप्रकृत्युपशमक्षयोपशमक्षये सति, अध्यात्मभाषया निज. शानाभिनुनपरिगेवा सति शुद्धात्मभावनोत्पन्ननिर्विकारवास्तवसुखामृतमु. पादेयं कृत्वा संसारशरीरभोगेषु योऽसौ हेयबुद्धिः सम्यग्दर्शनशुद्धः स चतुर्थगुणस्थानवर्ती व्रतरहितो दर्शनिको भण्यते । यश्च महिनी ... कपायक्षयोपशमे जाते सति पृथिव्यादिपञ्चस्थावरवधे प्रवृत्तोऽपि यथाशत्त्या त्रसवधे निवृत्तः स पञ्चमगुणस्थानवर्ती श्रावको भण्यते । तस्यैकादशभेदाः कथ्यन्ते । तथाहि-सम्यक्त्वपूर्वकत्वेन मद्यमांसमधुत्यागोदुम्बरपञ्चकपरिहाररूपाष्टमूलगुणमहितः सन् संग्रामादिवृत्तोऽपि पापाद्धर्यादिभिर्निष्प्रयोजनजीवघातादौ निवृत्तः प्रथमो दर्शनिकश्रावको भण्यते । स एव । सर्वथा त्रसवधे निवृत्तः सन् पञ्चाणुव्रतगुणवतत्रयशिक्षात्रतचतुष्टयसहितो द्वितीयव्रतिकसंज्ञो भवति । स एव त्रिकालसामायिक प्रवृत्तः तृतीयः, प्रोषधोपवासे प्रवृत्तश्चतुर्थः, सचित्तपरिहारेण पञ्चमः, दिवा-ब्रह्मचर्येण षष्ठः, सर्वथा ब्रह्मचर्येण सप्तमः, प्रारम्भादिसमस्तव्यापारनिवृत्तोऽष्टमः, वस्त्रप्रावरणं विहायान्यसर्वपरिग्रहनिवृत्तो नवमः, ग्रहव्यापारादिसर्वसावधानुमतनिवृत्तो दशमः, उद्दिष्टाहारनिवृत्त एकादशम इति । एतेष्वेकादशश्रावकेषु मध्ये प्रथमषटकं तारतम्येन जघन्यम्, ततश्च त्रयं मध्यमम् , ततो द्वयमुत्तममिति सङ्क्षपेण दर्शनिकश्रावकायेकादशभेदाः ज्ञातव्याः ॥ अथैकदेशचारित्रव्याख्यानानन्तरं सकलचारित्रमुपदिशति । "असुहादो विणिवित्ती सुहे पवित्ती य जाण चारित्तं" अशुभान्निवृत्तिः शुभे प्रवृत्तिश्चापि जानीहि चारित्रम् । तच्च कथम्भूतं- "वदसमिदिगुत्तिरुवं ववहारणया दु जिणभणियं" व्रतसमितिगुप्तिरूपं व्यवहारनयाजिनैरुक्तमिति । तथाहि-प्रत्याख्यानावरणसंज्ञतृतीयकषायक्षयोपशमे सति "विसयकसाांगाढोदुस्सुदिदुचित्तदुठ्ठगोठिजुदो । उग्गो उमग्गपरो उवोगो जस्स सो असुहे ॥” इति

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324