Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 273
________________ द्रव्यसंग्रहवृत्तिः । गाथा — ४६ । ४७ ध्यानस्योपसंहाररूपविशेषव्याख्यानेन तृतीयस्थले सूत्रचतुष्टयमिति स्थलत्रयसमुदायेन द्वादशसूत्रेषु द्वितीयान्तराधिकारे समुदायपातनिका । तथा हि-निश्रयव्यहारमोक्षमार्गसाधकध्यानाभ्यासं कुरुत यूयमित्युपदिशति । व्याख्या । “ दुविहं पि मे । क्खहेडं झाणे पाऊणदिजं मुणी यिमा " द्विविधमपि मोक्षहेतु ध्यानेन प्राप्नोति यस्मात् मुनिर्नियमात् । तद्यथा - निश्चयरत्नत्रयात्मकं निश्चयमोक्षहेतुं निश्चयमोक्षमार्ग, तथैव व्यवहाररत्नत्रयात्मकं व्यवहारमोक्षहेतुं व्यवहारमोक्षमार्ग च यं साध्यसाधकभावेन कथितवान् पूर्व तद्द्द्विविधमपि निर्विकारस्वसंवित्त्यात्मकपरमध्यानेन मुनिः प्राप्नोति यस्मात्कारणात् " तम्हा पयत्तचित्ता जूयं भाणं समब्भसन्ह" तस्मात् प्रयत्नचित्ताः सन्तो हे भव्या यूयं ध्यानं सम्यगभ्यसत । तथा हि तस्मात्कारणाद्दृष्टश्रुतानुभूतनानामनोरथरूपसमस्तशुभाशुभरागादिविकल्पजालं त्यक्त्वा परमस्वास्थ्यसमुत्पन्नसहजानन्दैकलक्षणसुखामृतरसास्वादानुभवे स्थित्वा च ध्यानाभ्यासं कुरुत यूयमिति ॥ ४७ ॥ अथ ध्यातृपुरुषलक्षणं कथयति । ८६ व्याख्या । “मा मुज्झह मा रज्जह मा दुस्सह" समस्तमोहरागद्वेषजनितविकल्पजालरहितनिजपरमात्मतत्त्वभावनासमुत्पन्नपरमानन्दैकल क्षणसुखामृतरसात्सकाशादुद्गता संजाता तत्रैव परमात्मसुखाखादे लीना तन्मया या तु परमकला परमसंवित्तिस्तत्र स्थित्वा हे भव्या मोहरागद्वेषान्मा कुरुत; केषु विषयेषु “ इट्ठट्ठित्थेसु ” स्रग्वनिताचन्दनताम्बूलादय इष्टेन्द्रियार्थाः, अहिविषकण्टकशत्रुव्याधिप्रभृतयः पुनरनिष्टेन्द्रियार्थास्तेषु यदि किं “थिरमिच्छह ज़इ चित्तं ” तत्रैव परमात्मानुभवे स्थिरं निश्चलं चित्तं यदीच्छत यूयं किमर्थ “विचित्तझाणप्पसिद्धीए ” विचित्रं नानाप्रकारं यद्ध्यानं तत्प्रसिद्ध्यै निमित्तं अथवा विगतं चित्तं चित्तोद्भव शुभाशुभविकल्पजालं यत्र तद्विचित्तं ध्यानं तदर्थमिति । इदानीं तस्यैव ध्यानस्य तावदागमभाषया विचित्रभेदाः कथ्यन्ते । तथा हि—इष्टवियोगानिष्टसंये। गव्याधिप्रतीकारभोगनिदानेषु वाञ्छारू चतुर्विधमार्त्तध्यानम् । तच्च तारतम्येन मिथ्यादृष्टयादिषट्गुणस्थानवर्त्तिजीवसम्भवम् । यद्यपि मिथ्यादृष्टीनां तिर्यग्गतिकारणं भवति तथापि बद्धायुष्कं विहाय सम्य

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324