________________
द्रव्यसंग्रहवृत्तिः । गाथा — ४६ । ४७
ध्यानस्योपसंहाररूपविशेषव्याख्यानेन तृतीयस्थले सूत्रचतुष्टयमिति स्थलत्रयसमुदायेन द्वादशसूत्रेषु द्वितीयान्तराधिकारे समुदायपातनिका । तथा हि-निश्रयव्यहारमोक्षमार्गसाधकध्यानाभ्यासं कुरुत यूयमित्युपदिशति ।
व्याख्या । “ दुविहं पि मे । क्खहेडं झाणे पाऊणदिजं मुणी यिमा " द्विविधमपि मोक्षहेतु ध्यानेन प्राप्नोति यस्मात् मुनिर्नियमात् । तद्यथा - निश्चयरत्नत्रयात्मकं निश्चयमोक्षहेतुं निश्चयमोक्षमार्ग, तथैव व्यवहाररत्नत्रयात्मकं व्यवहारमोक्षहेतुं व्यवहारमोक्षमार्ग च यं साध्यसाधकभावेन कथितवान् पूर्व तद्द्द्विविधमपि निर्विकारस्वसंवित्त्यात्मकपरमध्यानेन मुनिः प्राप्नोति यस्मात्कारणात् " तम्हा पयत्तचित्ता जूयं भाणं समब्भसन्ह" तस्मात् प्रयत्नचित्ताः सन्तो हे भव्या यूयं ध्यानं सम्यगभ्यसत । तथा हि तस्मात्कारणाद्दृष्टश्रुतानुभूतनानामनोरथरूपसमस्तशुभाशुभरागादिविकल्पजालं त्यक्त्वा परमस्वास्थ्यसमुत्पन्नसहजानन्दैकलक्षणसुखामृतरसास्वादानुभवे स्थित्वा च ध्यानाभ्यासं कुरुत यूयमिति ॥ ४७ ॥
अथ ध्यातृपुरुषलक्षणं कथयति ।
८६
व्याख्या । “मा मुज्झह मा रज्जह मा दुस्सह" समस्तमोहरागद्वेषजनितविकल्पजालरहितनिजपरमात्मतत्त्वभावनासमुत्पन्नपरमानन्दैकल क्षणसुखामृतरसात्सकाशादुद्गता संजाता तत्रैव परमात्मसुखाखादे लीना तन्मया या तु परमकला परमसंवित्तिस्तत्र स्थित्वा हे भव्या मोहरागद्वेषान्मा कुरुत; केषु विषयेषु “ इट्ठट्ठित्थेसु ” स्रग्वनिताचन्दनताम्बूलादय इष्टेन्द्रियार्थाः, अहिविषकण्टकशत्रुव्याधिप्रभृतयः पुनरनिष्टेन्द्रियार्थास्तेषु यदि किं “थिरमिच्छह ज़इ चित्तं ” तत्रैव परमात्मानुभवे स्थिरं निश्चलं चित्तं यदीच्छत यूयं किमर्थ “विचित्तझाणप्पसिद्धीए ” विचित्रं नानाप्रकारं यद्ध्यानं तत्प्रसिद्ध्यै निमित्तं अथवा विगतं चित्तं चित्तोद्भव शुभाशुभविकल्पजालं यत्र तद्विचित्तं ध्यानं तदर्थमिति ।
इदानीं तस्यैव ध्यानस्य तावदागमभाषया विचित्रभेदाः कथ्यन्ते । तथा हि—इष्टवियोगानिष्टसंये। गव्याधिप्रतीकारभोगनिदानेषु वाञ्छारू चतुर्विधमार्त्तध्यानम् । तच्च तारतम्येन मिथ्यादृष्टयादिषट्गुणस्थानवर्त्तिजीवसम्भवम् । यद्यपि मिथ्यादृष्टीनां तिर्यग्गतिकारणं भवति तथापि बद्धायुष्कं विहाय सम्य