Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 264
________________ द्रव्यसंग्रहवृत्तिः । गाथा-४१ समस्तविभावपरिणामरूपपरसमयानां प्रभावं हत्वा शुद्धोपयोगलक्षणस्वसंवेदनज्ञानेन विशुद्धज्ञानदर्शनस्वभावनिजशुद्धात्मनः प्रकाशनमनुभवनमेव प्रभावनेति ॥ एवमुक्तप्रकारेण मूढत्रयमदाष्टकषडनायतनशङ्काद्यष्टमलरहितं शुद्धजीवादितत्त्वार्थश्रद्धानलक्षणं सरागसम्यक्त्वाभिधानं व्यवहारसम्यक्त्वं विज्ञेयम् । तथैव तेनैव व्यवहारसम्यक्त्वेन पारम्पर्येण साध्यं शुद्धोपयोगलक्षणनिश्चयरत्नत्रयभावनोत्पन्नपरमाह्लादैकरूपसुखामृतरसास्वादनमेवोपादेयमिन्द्रियसुखादिकं च हेयमिति रुचिरूपं वीतरागचारित्राविनाभूतं वीतरागसम्यक्त्वाभिधानं निश्चयसम्यक्त्वं च ज्ञातव्यमिति । अत्र व्यवहारसम्यक्त्वमध्ये निश्चयसम्यक्त्वं किमर्थ व्याख्यातमिति चेद् व्यवहारसम्यक्त्वेन निश्चयसम्यक्त्वं साध्यत इति साध्यसाधकभावज्ञापनार्थमिति ।। इदानीं येषां जीवानां सम्यग्दर्शनग्रहणात्पूर्वमायुर्बन्धो नास्ति तेषां व्रतामावेऽपि नरनारकादिकुत्सितस्थानेषु जन्म न भवतीति कथयति । “ सम्यग्दर्शनशुद्धा नारकतिर्यनपुंसकस्त्रीत्वानि । दुष्कृतविकृताल्पायुर्दरिद्रतां च व्रजन्ति नातिकाः । १।” इतः परं मनुष्यगतिसमुत्पन्नसम्बग्दष्टेः प्रभावं कथयति । "प्रोजस्तेजोविद्यावीर्ययशोवृद्धिविजयविभवसनाथाः । उत्तमकुला महा मानवतिलका भवन्ति दर्शनपूताः ॥" अथ देवगतौ पुनः प्रकीर्णकदेववाहनदेवकिल्बिषदेवनीचदेवत्रयं विहायान्येषु महर्द्धिकदेवेषूत्पद्यते सम्यग्दृष्टिः । इदानों सम्यक्त्वग्रहणात्पूर्वदेवायुष्कं विहाय ये बद्धायुष्कास्वान् प्रति सम्यक्त्वमाहात्म्य कथयति । “हेट्ठिमछप्पुढवीणं जोइसवणभवणसव्वइत्थीणं । पुण्मिादरे पहि सम्मो ण सासणो णारयापुण्णे ॥” तमेवार्थ प्रकारान्तरेण कथयति "ज्यो. तिर्भावनभौमेषु षट्स्वधः श्वभ्रभूमिषु । तिर्यतु नृसुरस्त्रीषु सदृष्टि व जायते ॥" अथौपशमिकवेदकक्षायिकाभिधानसम्यक्त्वत्रयमध्ये कम्यां गतो कस्य सम्यक्त्वस्य सम्भवोऽस्तीति कथयति “सौधर्मादिष्वसंख्याब्दायुष्कतिर्यक्षु नृष्वपि । रत्नप्रभावनौ च स्यात्सम्यक्त्वत्रयमङ्गिनाम् ॥" कर्मभूमिजपुरुषे च त्रयं सम्भवति बद्धायुष्के लब्धायुष्कऽपि । किन्त्वौपशमिकमपर्याप्तावस्थायां महर्द्धिकदेवेष्वेव । “शेषेषु देवतिर्यक्षु षट्स्वधः श्वभ्रभूमिषु । द्वौ वेदकोपश

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324