________________
द्रव्यसंग्रहवृत्तिः । गाथा-४१ समस्तविभावपरिणामरूपपरसमयानां प्रभावं हत्वा शुद्धोपयोगलक्षणस्वसंवेदनज्ञानेन विशुद्धज्ञानदर्शनस्वभावनिजशुद्धात्मनः प्रकाशनमनुभवनमेव प्रभावनेति ॥
एवमुक्तप्रकारेण मूढत्रयमदाष्टकषडनायतनशङ्काद्यष्टमलरहितं शुद्धजीवादितत्त्वार्थश्रद्धानलक्षणं सरागसम्यक्त्वाभिधानं व्यवहारसम्यक्त्वं विज्ञेयम् । तथैव तेनैव व्यवहारसम्यक्त्वेन पारम्पर्येण साध्यं शुद्धोपयोगलक्षणनिश्चयरत्नत्रयभावनोत्पन्नपरमाह्लादैकरूपसुखामृतरसास्वादनमेवोपादेयमिन्द्रियसुखादिकं च हेयमिति रुचिरूपं वीतरागचारित्राविनाभूतं वीतरागसम्यक्त्वाभिधानं निश्चयसम्यक्त्वं च ज्ञातव्यमिति । अत्र व्यवहारसम्यक्त्वमध्ये निश्चयसम्यक्त्वं किमर्थ व्याख्यातमिति चेद् व्यवहारसम्यक्त्वेन निश्चयसम्यक्त्वं साध्यत इति साध्यसाधकभावज्ञापनार्थमिति ।।
इदानीं येषां जीवानां सम्यग्दर्शनग्रहणात्पूर्वमायुर्बन्धो नास्ति तेषां व्रतामावेऽपि नरनारकादिकुत्सितस्थानेषु जन्म न भवतीति कथयति । “ सम्यग्दर्शनशुद्धा नारकतिर्यनपुंसकस्त्रीत्वानि । दुष्कृतविकृताल्पायुर्दरिद्रतां च व्रजन्ति नातिकाः । १।” इतः परं मनुष्यगतिसमुत्पन्नसम्बग्दष्टेः प्रभावं कथयति । "प्रोजस्तेजोविद्यावीर्ययशोवृद्धिविजयविभवसनाथाः । उत्तमकुला महा मानवतिलका भवन्ति दर्शनपूताः ॥" अथ देवगतौ पुनः प्रकीर्णकदेववाहनदेवकिल्बिषदेवनीचदेवत्रयं विहायान्येषु महर्द्धिकदेवेषूत्पद्यते सम्यग्दृष्टिः । इदानों सम्यक्त्वग्रहणात्पूर्वदेवायुष्कं विहाय ये बद्धायुष्कास्वान् प्रति सम्यक्त्वमाहात्म्य कथयति । “हेट्ठिमछप्पुढवीणं जोइसवणभवणसव्वइत्थीणं । पुण्मिादरे पहि सम्मो ण सासणो णारयापुण्णे ॥” तमेवार्थ प्रकारान्तरेण कथयति "ज्यो. तिर्भावनभौमेषु षट्स्वधः श्वभ्रभूमिषु । तिर्यतु नृसुरस्त्रीषु सदृष्टि व जायते ॥" अथौपशमिकवेदकक्षायिकाभिधानसम्यक्त्वत्रयमध्ये कम्यां गतो कस्य सम्यक्त्वस्य सम्भवोऽस्तीति कथयति “सौधर्मादिष्वसंख्याब्दायुष्कतिर्यक्षु नृष्वपि । रत्नप्रभावनौ च स्यात्सम्यक्त्वत्रयमङ्गिनाम् ॥" कर्मभूमिजपुरुषे च त्रयं सम्भवति बद्धायुष्के लब्धायुष्कऽपि । किन्त्वौपशमिकमपर्याप्तावस्थायां महर्द्धिकदेवेष्वेव । “शेषेषु देवतिर्यक्षु षट्स्वधः श्वभ्रभूमिषु । द्वौ वेदकोपश