________________
द्रव्यसंग्रहवृत्तिः । गाथा-४१ व्याख्याय तदनन्तरं द्वितीयस्थले:
'सम्यक्तादित्रयंक्रमण विवृणेति । तत्रादौ सम्यक्त्वमाह।
व्याख्या। “जीवादीसद्दहणं सम्मत्त" वीतरागसर्वज्ञप्रणीतशुद्धजीवादितत्त्वविषये चलमलिनावगाढरहितत्वेन श्रद्धानं रुचिनिश्चय इदमेवेत्थमेवेति निश्चयबुद्धिः सम्यग्दर्शनम् । “रूवमप्पणो तं तु" तच्चाभेदनयेन रूपं स्वरूपं तु पुनः कस्यात्मन आत्मपरिणाम इत्यर्थः । तस्य सामर्थ्यमाहात्म्यं दर्शयति । “दुरभिणिवेसविमुक्कं णाणं सम्मं खु होदि सदि जम्हि " यस्मिन् सम्यक्त्वे सति ज्ञानं सम्यग भवति स्फुटं कथम्भूतं सम्यग्भवति “दुरभिणिवेसविमुक्क" चलितप्रतिपत्तिगच्छत्त णस्पर्शशुक्तिकाशकलरजतविज्ञानसदृशं संशयविभ्रमविमोहैमुक्तं रहितमित्यर्थः ।
इतो विस्तारः-सम्यक्त्वे सति ज्ञानं सम्यग्भवतीति यदुक्तं तस्य विवरणं क्रियते । तघाहि-गौतमामिभूतिवायुभूतिनामानो विप्राः पञ्चपञ्चशतब्राह्मणोपाध्याया वेदचतुष्टयं, ज्योतिष्कव्याकरणादिषडङ्गानि, मनुस्मृत्याद्यष्टादशस्मृतिशास्त्राणि तथा भारताद्यष्टादशपुराणानि मीमांसान्यायविस्तर इत्यादिलौकिकसर्वशास्त्राणि यद्यपि जानन्ति तथापि तेषां हि ज्ञानं सम्यक्त्वं विना मिथ्याज्ञानमेव । यदा पुनः प्रसिद्धकथान्यायेन श्रीवीरवर्द्धमानस्वामितीर्थकरपरमदेवसमवसरणे मानस्तम्भावलोकनमात्रादेवागमभाषया दर्शनचारित्रमोहनीयोपशमक्षयसंज्ञेनाध्यात्मभाषया स्वशुद्धात्माभिमुखपरिणामसंज्ञेन च कालादिलब्धिविशेषेण मिथ्यात्वं विलयं गतं तदा तदेव मिथ्याज्ञानं सम्यग्ज्ञानं जातम् । ततश्च "जयति भगवान्" इत्यादि नमस्कारं कृत्वा जिनदीक्षां गृहीत्वा कचलोचानन्तरमेव चतुर्ज्ञानसप्तर्द्धिसम्पन्नास्त्रयोऽपि गणधरदेवाः संजाताः । गौतमस्वामी भन्योपकारार्थ द्वादशाङ्गश्रुतरचनां कृतवान् । पश्चान्निश्चयरत्नत्रयभावनाबलेन त्रयोऽपि मोक्षं गताः । शेषाः पञ्चदशशतप्रमितब्राह्मणा जिनदीक्षां गृहीत्वा यथासम्भवं स्वर्ग मोक्षं च गताः । अभव्यसेनः पुनरेकादशाङ्गधारकोऽपि सम्यक्त्वं विना मिथ्याज्ञानी सञ्जात इति । एवं सम्यक्त्वमाहात्म्येन ज्ञानतपश्चरणव्रतोपशमध्यानादिकं मिथ्यारूपमपि सम्यग्भवति । तदभावे विषयुक्तदुरशासित सर्व वृथेति ज्ञातव्यम् ।