Book Title: Dravya Sangraha
Author(s): Nemichandra Siddhant Chakravarti, Saratchandra Ghoshal
Publisher: ZZZ Unknown

Previous | Next

Page 255
________________ द्रव्यसंग्रहवृत्तिः । गाथा-३७ जगच्छून्यं भविष्यतीति ? तत्र परिहारः यथा-भाविकालसमयानां क्रमेण गच्छतां यद्यपि भाविकालसमयराशेः स्तोकत्वं भवति तथाप्यवसानं नास्ति । तथा मुक्तिं गच्छतां जीवानां यद्यपि जीवराशेः स्तोकत्वं भवति तथाप्यवसानं नास्ति । इति चेत्तर्हि पूर्वकाले बहवोऽपि जीवा मोक्षं गता इदानीं जगतः शून्यत्वं न दृश्यते । किञ्चामव्यानामभव्यसमानभव्यानां च मोक्षो नास्ति कथं शून्यत्वं किं भविष्यतीति ॥ ३७॥ एवं संक्षेपेण मोक्षतत्वव्याख्यानेनैकसूत्रेण पञ्चमं स्थलं गतम् । ___ अत ऊर्ध्व षष्ठस्थले गाघापूर्वार्धन पुण्यपापपदार्घदयस्वरूपमुत्तरार्धेन च पुण्यपापप्रकृतिसंख्यां कथयामीत्यभिप्रायं मनसि धृत्वा भगवान् सूत्रमिदं प्रतिपादयति । व्याख्या । “पुण्णं पावं हवंति खलु जीवा” चिदानन्दैकसहजशुद्धस्वभावत्वेन पुण्यपापबन्धमोक्षादिपर्यायरूपविकल्परहिता अपि सन्तानागतानादिकर्मबन्धपर्यायेण पुण्यं पापं च भवन्ति खलु स्फुटं जीवाः । कथंभूताः सन्तः “सुहअसुहभावजुत्ता” “उद्बम मिथ्यात्वविषं भावय दृष्टिं च कुरु परां भक्तिम् । भाव नमस्काररतो ज्ञाने युक्तो भव सदापि । पञ्चमहाव्रतरक्षा कोपचतुष्कस्य निग्रहं परमम् । दुर्दान्तेन्द्रियविजयं तपःनिधिविधौ कुरूद्योगम् ।" इत्याद्वियकथितलक्षणेन शुभोपयोगभावेन परिणामेन तद्विलक्षणेनाशुभोपयोगपरिणामेन च युक्ताः परिणताः । इदानीं पुण्यपापभेदान् कथयति “सादं सुहाउ णामं गोदं पुण्णं" सद्वेद्यशुभायुर्नामगोत्राणि पुण्यं भवति “पराणि पावं च तस्मादपराणि कर्माणि पापं चेति । तद्यथा-सद्वद्यमेकं, तिर्यग्मनुष्यदेवायुस्त्रयं, सुभगयशःकीर्नितीर्घकरत्वादिनामप्रकृतीनां सप्तत्रिंशत, तथोच्चैर्गोत्रमिति समुदायेन द्विचत्वारिंशत्मंल्या: पुण्यप्रकृतयो विज्ञेयाः । शेषा द्वयशीतिपापमिति । तत्र “दर्शनविशुद्धिविनयसंपन्नता शीलवतेष्वनतिचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधि(यावृत्त्यकरणमहदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्या' इत्युक्तलक्षणपोडशभावनोत्पन्नतीर्घकरनामकर्मैवं विशिष्टं पुण्यम् । षोडशभावनासु मध्ये परमागमभाषया "मूडत्रयं मदाश्चाष्टौ तथानायतनानि षट् । अष्टौ शङ्कादयश्चेति दृग्दोषाः पञ्चविंशतिः ।"

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324