________________
द्रव्यसंग्रहवृत्तिः । गाथा-३७ जगच्छून्यं भविष्यतीति ? तत्र परिहारः यथा-भाविकालसमयानां क्रमेण गच्छतां यद्यपि भाविकालसमयराशेः स्तोकत्वं भवति तथाप्यवसानं नास्ति । तथा मुक्तिं गच्छतां जीवानां यद्यपि जीवराशेः स्तोकत्वं भवति तथाप्यवसानं नास्ति । इति चेत्तर्हि पूर्वकाले बहवोऽपि जीवा मोक्षं गता इदानीं जगतः शून्यत्वं न दृश्यते । किञ्चामव्यानामभव्यसमानभव्यानां च मोक्षो नास्ति कथं शून्यत्वं किं भविष्यतीति ॥ ३७॥ एवं संक्षेपेण मोक्षतत्वव्याख्यानेनैकसूत्रेण पञ्चमं स्थलं गतम् । ___ अत ऊर्ध्व षष्ठस्थले गाघापूर्वार्धन पुण्यपापपदार्घदयस्वरूपमुत्तरार्धेन च पुण्यपापप्रकृतिसंख्यां कथयामीत्यभिप्रायं मनसि धृत्वा भगवान् सूत्रमिदं प्रतिपादयति ।
व्याख्या । “पुण्णं पावं हवंति खलु जीवा” चिदानन्दैकसहजशुद्धस्वभावत्वेन पुण्यपापबन्धमोक्षादिपर्यायरूपविकल्परहिता अपि सन्तानागतानादिकर्मबन्धपर्यायेण पुण्यं पापं च भवन्ति खलु स्फुटं जीवाः । कथंभूताः सन्तः “सुहअसुहभावजुत्ता” “उद्बम मिथ्यात्वविषं भावय दृष्टिं च कुरु परां भक्तिम् । भाव नमस्काररतो ज्ञाने युक्तो भव सदापि । पञ्चमहाव्रतरक्षा कोपचतुष्कस्य निग्रहं परमम् । दुर्दान्तेन्द्रियविजयं तपःनिधिविधौ कुरूद्योगम् ।" इत्याद्वियकथितलक्षणेन शुभोपयोगभावेन परिणामेन तद्विलक्षणेनाशुभोपयोगपरिणामेन च युक्ताः परिणताः । इदानीं पुण्यपापभेदान् कथयति “सादं सुहाउ णामं गोदं पुण्णं" सद्वेद्यशुभायुर्नामगोत्राणि पुण्यं भवति “पराणि पावं च तस्मादपराणि कर्माणि पापं चेति । तद्यथा-सद्वद्यमेकं, तिर्यग्मनुष्यदेवायुस्त्रयं, सुभगयशःकीर्नितीर्घकरत्वादिनामप्रकृतीनां सप्तत्रिंशत, तथोच्चैर्गोत्रमिति समुदायेन द्विचत्वारिंशत्मंल्या: पुण्यप्रकृतयो विज्ञेयाः । शेषा द्वयशीतिपापमिति । तत्र “दर्शनविशुद्धिविनयसंपन्नता शीलवतेष्वनतिचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी साधुसमाधि(यावृत्त्यकरणमहदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्या' इत्युक्तलक्षणपोडशभावनोत्पन्नतीर्घकरनामकर्मैवं विशिष्टं पुण्यम् । षोडशभावनासु मध्ये परमागमभाषया "मूडत्रयं मदाश्चाष्टौ तथानायतनानि षट् । अष्टौ शङ्कादयश्चेति दृग्दोषाः पञ्चविंशतिः ।"