________________
द्रव्यसंग्रहवृत्तिः । गाथा-३७ इति श्लोककथितपञ्चविंशतिमलरहिता तथाध्यात्मभाषया निजशुद्धात्मोपादेयरुचिरूपा सम्यक्त्वभावनैव मुख्येति विज्ञ यम् । सम्यग्दृष्टीवस्य पुण्यपापद्वयमपि हेयम् । कथं पुण्यं करोतीति ? तत्र युक्तिमाह। यथा कोऽपि देशान्तरस्थमनोहरस्त्रीसमीपादागतपुरुषाणां तदर्थे दानसन्मानादिकं करोति तथा सम्यग्दृष्टिरप्युपादेयम्पेण स्वशुद्धात्मानमेव भावयति चारित्रमोहोदयात्तत्रासमर्थः सन् निर्दोषपरमात्मस्वरूपाणामर्हत्सिद्धानां तदाराधकाचार्योपाध्यायसाधूनां च परमात्मपदप्राप्त्यर्थ विषयकषायवञ्चनार्थ च दानपूजादिना गुणस्तवनादिना वा परमभक्तिं करोति तेन भोगाकाङ्क्षादिनिदानरहितपरिणामेन कुटुम्बिना पलालमिव अनीहितवृत्त्या विशिष्टपुण्यमास्रवति तेन च स्वर्गे देवेन्द्रलोकान्तिकादिवीभूति प्राप्य विमानपरीवारादिसंपदं जीर्णतृणमिव गणयन् पञ्चमहाविदेहेषु गत्वा पश्यति । किं पश्यतीति चेत्-तदिदं समवसरणं, त एते वीतरागसर्वज्ञाः, त एते भेदाभेदरत्नत्रयाराधका गणधरदेवादयो ये पूर्व श्रूयन्ते त इदानी प्रत्यक्षेण दृष्टा इति मत्वा विशेषेण दृढधर्ममतिभूत्वा चतुर्थगुणस्थानयोग्यामात्मनो विरतावस्थामपरित्यजन् भोगानुभवेऽपि सति धर्मध्यानेन कालं नीत्वा स्वर्गादागत्य तीर्थकरादिपदे प्राप्तेऽपि पूर्वभवभावितविशिष्टमेदज्ञानवासनाबलेन मोहं न करोति ततो जिनदीक्षां गृहीत्वा पुण्यपापरहितनिजपरमात्मध्यानेन मोक्ष गच्छतीति । मिथ्यादृष्टिस्तु तीव्रनिदानबन्धपुण्येन भोगं प्राप्य पश्चादर्द्धचक्रवर्तिरावणादिवन्नरकं गच्छतीति । एवमुक्तलक्षणपुण्यपापपदार्थद्वयेन सह पूर्वोक्तानि सप्ततत्त्वान्येव नव पदार्था भवन्तीति ज्ञातव्यम् । इति श्रीनेमिचन्द्रसैद्धान्तकदेवविरचिते द्रव्यसङ्ग्रहान्थे "पासवबंधण" इत्याद्येका सूत्रगाथा तदनन्तरं गाथादशकेन स्थलषट्कंचेति समु__ दायेनैकादशसूत्रैः सप्ततत्त्वनवपदार्थप्रतिपादकनामा
द्वितीयाधिकारः समाप्तः ॥२॥ अत ऊर्ध्व विंशतिगाथापर्यन्तं मोक्षमार्ग कथयति । तत्रादौ "सम्मइंसण" इत्याद्यष्टगाथाभिर्निश्चयमोक्षमार्गव्यवहारमोक्षमार्ग प्रतिपादकमुख्यत्वेन प्रथमोऽन्तराधिकारस्ततः परम् “दुविहं पि मोक्खहउँ' इति प्रभृतिद्वादशसूत्रातृध्येयध्यानफलकधनमुख्यत्वेन द्वितीयोन्तराधिकारः ! तृतीयाधिकारे समुदायन प्रातनिका।